पृष्ठम्:चम्पूभारतम्.pdf/४१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१९
एकादश स्तबक ।


 द्वावेवाभ्रे द्योसदा गोष्ठिमध्ये
  पूषाचन्द्रौ पुष्पवन्तावभूताम् ॥ १४ ॥
वियत्प्रदेशाद्विशिखै कठोरैदुद्राव दूर ध्रुवमब्जबन्धु ।
अमुष्य नो चेदचिराद्भजेरन्पादा कथ पाटलि[१]मानमेव ॥ १५ ॥
तरणे किरणैस्तरुणाना पटल व्योग्नि पयोमुचा बभासे ।
चिरकाल [२]बुभुक्षया पिशाचैरधिक मासमिवाहवादुपात्तम् ॥ १६ ॥
 अवरोपितज्यमथ कर्णकार्मुक
  विरतौ दिनस्य विजहौ विनम्रताम् ।
,


त्पुष्पाणीति भाव । पुष्पै रिक्त्ते शून्ये सति अभ्रे आकाशे स्थिताना घोसदा देवाना गोष्ठया सभाया मध्ये पूषाचन्द्रौ सूर्याचन्द्रमसौ द्वावेव ।‘देवनाद्वन्द्वे च' इत्याकार पुष्पवन्तौ सपुष्पौ पुष्पवत्सज्ञाविति च अभूताम् । अत्र पूर्ववदलकारो ध्वनिश्च। अत्र रिक्त्ते पुष्पै सिद्धसाध्यादिवर्गे’ इति पठनीय । अन्यथा विद्याधरादिदेवान्ताना पुष्पशून्यत्वानुक्त्या सूर्येन्द्वतिरिक्त्ताना सर्वेषा पुष्पवत्त्वपरिशेषीकरणा सगतेरिति । एव ‘सिद्धगन्धर्वमुख्यै ’ इति पाठस्तृतीयान्त पूषाचन्द्रविति प्रथमा न्तपाठेनासगत इति च ध्येयम् । शालिनीवृत्तम् ॥ १४ ॥

 वियदिति । अमुष्य कर्णस्य सबन्धिभि कठोरै दारुणै विशिखै बाणे । तत्प्रहारभीत्येति यावत्। अब्जबन्धु सूर्य वियत आकाशस्य प्रदेशात् दूरदुद्राव पलायितवान् । ध्रुव असशयम्। क्ष्रान्तरथ्य विहाय रथम्। पादैरेवेति भाव । नो चेत्स पदैर्न दुद्राव यदि अस्य अब्जबन्धो पादा चरणा किरणाश्च पाटलिमान आरण्य अचिरात् तत्क्षणादेव कथ भजेरन् प्राप्नुयु । न प्रामुयुरेवेत्यय । भजतेर्विवौ लिड्। अत्र क्ष्लेषभित्तिकाभेदाध्यवसितपादारुण्यान्यथानुपपत्त्यार वेधावननि क्ष्चयादर्थापत्तिनाम प्रमाणालकारातिशयोक्त्तयुज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर । पाटलिमातिरेकम्' इति पाठोऽर्कवाचकपदसाकाङ्क्षत्वाकाक्षिन्यायस्यार्थाभेद एव प्रवृत्या अमुष्येति पदानुषङ्गायोगाच्चोपेक्ष्य । अस्तोन्मुखोऽभूदर्क इति परमार्थ ॥ १५ ॥

 तरणेरिति । तदा सूर्यास्तमयसमये तरणे सूर्यस्य किरणें अरुणाना रञ्जिताना पयोमुचा मेघाना पटल समूह व्योम्नि आकाशे पिशाचै चिरकाल भोक्त्तुमिच्छा बुभुक्षा तया हेतुना आहवात् कुरुपाण्डवयुद्धदेशात् उपात्त सगृहीत अधिक मासमिवेत्युप्रेक्षा । बभासे । औपच्छन्दसिक नाम वैतालीयभेद ॥ १६ ॥

 अवरोपितज्यमिति । अथ दिनस्य विरतौ सायकाले अवरोपिता कोटित रत्रसिता ज्या मौर्वी यस्य तथोक्त्त कर्णस्य कार्मुक धनु भयात् हरिता दिशा


  1. ‘आतिरेकम्’ इति पाठ
  2. ‘बुभुक्षितै ’ इति पाठ