पृष्ठम्:चम्पूभारतम्.pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
चम्पूभारते


 अथ निशीये तथाभुतस्य तस्य जिघासया कुरुनरेन्द्रनन्द्रेनेन चोदितैनेरेन्द्रेरुपेत्य युगपदेव झटिति नि[१] भृत समुद्धटितेषु नियत्रणपेटकेषु

सुते पितृस्वाढिमसप्रदायशुशुत्सयेव क्ष्वसनाशनेन्द्रा।
समीरसूनु समुपेत्य जिह्वाबहि प्रसारान्बहुशो वितेनु ॥ २ ॥

सुप्तस्य तस्य तु सुयोधनभृत्यमुक्त्ता
 वाताशनाक्ष्च सकला वनदेवताक्ष्च ।
आशीर्दूय वपुषि चायुषि च प्रतेनु
 पूर्वो न तत्र चरमैव पुपोष वीर्यम् ॥ ३ ॥

मर्मदत्तद[२]शना भुजङ्गमा मारुतेर्वपुषि सुप्तिभूऱूह ।


 अथेति । अथ स्वापानन्तर तथाभूतस्य सुस्वसुप्तस्य भीमस्य जिघासया हन्तुमिच्छया कुरुनरेन्द्रनन्दनेन दुर्योवनेन चोदितै प्रेरितैर्नरेन्र्विद्रैषवैद्यै । 'न रेस्द्रो विषवैद्याऽपि' इति विक्ष्व । निभृत गूढ यथा तथा उपेत्य युगपत् एकदैव नियन्त्रणपेटकेषु सर्पबन्धनमञ्जूषासु झटिति द्रुत समुद्धाटितेषु विहतेषु सत्स्वित्युत्तरेणैकवाक्यम् ॥

 सुत इति । क्ष्वसनो वायुरशनमन्न येषा तेषामिन्द्रा सर्पक्ष्रेष्ठा सुते वायुपुत्रे भीमे पितुर्वायो सबन्धी य स्वादिमा अन्नमाधुर्य तस्य य सप्रदाय पारम्पर्येण सक्त्रमण तस्य शोधितु परीक्षितुमिच्छा शुशुत्सा तयेवेत्युत्प्रेक्षा । कारणगुणस्य कार्ये सफमणपरीक्षयेबेति यावत् । समीरसूनु भीम सम्यगुपेत्य जिह्वाना वहि प्रसारन्बिहुशोऽधिक वितेनुक्ष्चनु । उपजातिपृत्त्म् ॥ २ ॥

 सुप्तस्येति । सुयोघनस्य भूत्यैर्मुक्त्ता प्रयोजिता वाताशना सपाक्ष्च सकला वनढेवताक्ष्च सुप्तस्य तस्य भीमस्य । तुश्हाब्द क्रमार्थक । वपुषि शरीरे आयुषि च । 'आशिषोदर्ष्ट्रया शुभप्रार्थनायाक्ष्च प्रतेनु । प्रत्येकनिवेश्यामासुरि त्यत्थ । ’आशी शुभाशसाहिढष्ट्रयो' इत्यमर । तत्र आशीर्दूयस्य मध्ये पूर्वा प्रथमा सर्पदष्ट्रा वीर्य मारणसामध्ये न पुपोष न रक्षितवती । किंतु चरमा द्वितीया वनदेवता शुभप्रार्थनैव वीर्य चिरजीवित्वकरणात्मक पुपोष । खलजनविपन्नान्सतो देवा एव रक्षन्तीति भाव । वसन्ततिलकावृत्तम् ॥ ३ ॥

 मर्मेति । भुजङ्गमा सर्पा पूर्वोक्त्त मारुतस्यपत्य पुमान् मारुतिर्भीमस्तस्य वपुषि शरीरे भर्मसु आयु स्थानेषु दत्ता निहिता दशना दष्ट्रा यैस्तयोक्त्ता सन्तो


  1. 'निभृतसमु' इति पाठ
  2. 'रशना' इति पाठ