पृष्ठम्:चम्पूभारतम्.pdf/४२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२१
एकादश स्तबक ।


र्भवति सति मधुमथनसारथेर्मघवत्कुमारस्य वधकृते शल्य[१]सत्सारक्ष्यमेव [२]पर साधनमवधारयता [३]राधेयेन कुतबोधन सुयोधन [४]सबहुमान मानधनभाज मद्रराजमुपगम्य स्वागमननिदानपरिज्ञानेन विमनायमानमपि त तैस्तैर्मधुररचनैर्वचनै कोपगिरेरधित्यकाप्रदेशात्कथचिदवरोप्य कर्णरथनैप[५]थ्य सारथ्यमधिरोपयामास ।

,

अथ मद्रनायकनिबद्धसैन्धव
 रथमारुरोह रविभू पराक्रमी ।
प्रमदक्ष्च कौरवचमूचरान्क्षणा-
 दतिसाध्वस च परयोधमण्डलम् ॥ १९ ॥
,


थन कृष्ण सारथिर्यस्य तस्य मघवत इन्द्रस्य कुमार अर्जुन तस्य ववस्य कृते वधार्थ शल्ये मद्रराजे सत्सारथ्य सूतकूत्यमेव पर साधन मुख्यकरण अवधारयता निश्चिन्वता राधेयेन कर्णेन कृत बोधन शल्येन सारथ्यकरणाय प्रेरणा यस्य तथोक्त्त सुयोधन सबहुमान यथा तथा मानमेव धन भजतीति भाज अतएब स्वस्य स्वीयस्य आगमनस्य यन्निदान मुख्यकारण कर्णसारथ्यप्रार्थनात्मक तस्य परिज्ञानेन विमनायमान खिन्नमपि मद्राणा जनपदाना राजा मद्रराज त शल्य उपगम्य प्राप्य मधुरा श्रुतिप्रीतिकरा रचना शब्दसदर्भ येषु तै तैस्तै नानाविधै वचनै वाक्यै कोप अनुचितकृत्यप्रेरणाजन्य स एव गिरि तस्य अधित्यकाप्रदेशात् । ‘अद्रेर्भूमिरूर्ध्वमधित्यका’ इत्यमर । कथाचित् अतिकष्टेन अवरोण्य अवरोह्य । विगतकोप कृत्वेति यावत् । कर्णरथस्य नैपथ्य अलकार सारथ्य अधिरोपयामास अङ्गीकारितवान् । मद्रराजमित्यनुषज्यते । मघवत्कुमारस्येत्यत्र कर्तृत्वस्य सबन्धवविवक्षया शेषषष्ठीविधानादर्जुनकर्तृकात्म- वधाथमित्यथलाभोऽपीति ध्येयम् ॥

 अथेति । अथ शल्येन सारथ्यकरणाङ्गीकरणानन्तर प्रशस्त पराक्रमोऽस्यास्तीति पराक्रमी । प्रशसायमिनि । रवेर्भवतीति रविभू कर्ण मद्रनायकेन शल्येन निबद्धा सयोजिता सैन्ववा अश्वा यस्मिंस्त रथ आरुरोह आरूढवान् । प्रमद आनन्द । चस्वर्थ । कौरवचमूचरान् दुर्योधनसेना परमत्यन्त आरुरोह । अतिसाध्वस अत्यन्तभय तु परयोधाना पाण्डवभटाना मण्डळ समूह पर आरुरोह । अत्र कर्णर्तृकशल्यसारथिरथारोहणवाक्यार्थस्य कौरवपाण्डवचमूद्वथीमोदखेदहेतुत्वाद्वाक्याथहेतुकाव्यलिङ्गद्वयससृष्टेरारोहणक्रियायास्तद्वाचकस्य चावृ त्त्या उभयावृत्तिदीपकस्य चैकवाचकानुप्रवेशसकर । मञ्जुभाषिणी ॥ १९ ॥


  1. ‘सत्’ इति नास्ति क्कचित्
  2. ’पर’ इति नास्ति वचित्
  3. ‘राधातनथेन’ इति पाठ
  4. ’सबहुमान' इति नास्ति कचित्
  5. ‘नेपथ्य' इति पाठ