पृष्ठम्:चम्पूभारतम्.pdf/४२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
चम्पूभारते


कुत्रापि गूढ़बसतिस्त्वमहोनि[१]कुञ्चे
 कि नाविभे सविधकीचकरन्ध्रगानात् ॥ २३ ॥
पाञ्चालिकाया परिणीतिकाले सघीभवद्भि सह धार्तराष्ट्रै ।
भवानभूत्पार्थशरप्रयोगात्कर्णोऽपि भूत्वा कथमात्तगन्ध ॥ २४॥
इन्द्रात्मजातेन स तेन गन्तुमीष्टे तुळामीश्वर एक एव ।
नृणाय कृ[२]त्वा निजजी[३]वन यो युद्धाय येन स्पृहयन्नुदस्थात् ॥२५॥

इति तस्य मद्राध्यक्षस्य तादृक्षभृ[४]भुऋण कुमारपक्षपात समीक्ष्य


निते दत्मबद्धे सति । अहो इति हासपूर्वके खेदे । हे कर्ण, त्व कुत्रापि दुर्जेये निकुञ्जे गुल्मे गूढ़ा दुर्लक्ष्या वसति स्थिति यस्य तथोक्त सन् । सविधे समीपे ये कीचका वेणुविशेषा तेषा रन्ध्रै वायुपूर्णै गानात् शब्दादपि नाबिभे । शब्दानुसारेण मामत्रत्य विज्ञाय बध्नीयुरिति भीतो न भू किमिति काकु । अबि भेरेवेत्यर्थ । बिभेते कर्तरि लड्। अत्रापि वस्तुना तदाजुनेन भवत्सुह्मोचन जानताप्येवमुच्यत इति प्रतीतेर्वस्तुना वस्तुध्वनि । वसन्ततिलका ॥ २३ ॥

 पाञ्चालिकाया इति । कि च पाञ्चालिकाया द्रौपद्या परिणीतिकाले विवाहसमये सघीभवद्भि द्रोषद्यपहरणाय वृन्दायमानै घर्तराष्ट्रै सह हे कर्ण, भवान् पाथस्य अजुनस्य शराणा प्रकर्षेण योगात् प्रहारात् आत्त परेण गृहीत गन्घ गर्व यस्य तथोक्त्त । ‘आत्तगन्धोऽभिभूत स्यात्' इत्यमर । कर्णे भूत्वापि तदानीतनकर्ण सन्नपि इदाना पुन आत्तगन्ध सगर्व कथमभूत् । अभूरित्यर्थ । ‘शेषे प्रथम ’ इति प्रथमपुरुष । यद्वा भवान् कर्ण सबिलत्वेन यथार्थनामा भूत्वापि पुनरात्तगन्घ कथमभूदिति योजना । अस्य न तन्त्रन्यायानुसरणगौर वदोष इति ध्येयम् । गन्धो गन्धक आमोदे लेशे सबन्घगवयो’ इति वैजयन्ती । उपजाति ॥ २४ ॥

 इन्द्रेति । अत हे कर्ण, तेन त्रिभुवनप्रसिद्धपराक्रमेण इन्द्रस्य आत्मजातेन अजुनेन सह तुला साम्य गन्तु लब्धु स त्रिपुरजलधरासुरादिजेतृत्वेन प्रसिद्ध ईश्वर शभु एक एव । ईष्टे क्षमते । नान्य इत्यर्थं । यत य इन्द्रात्मजात निज जीवन जीवित तृणाय कृत्वा तृणप्राय मन्वान । तृणमिव अनादृत्येति यावत् । ‘मन्यमण्यनादरे’ इति सप्रदानत्वम् । येन शभुना सह युद्धाय स्पृहयन् अभि लषन् । ‘स्टुहेरीप्सित ’ इति सप्रदानत्वम् । उदस्थात् उघुक्तवान् । तेन स इति सबन्घ । ‘आयासळेश-' इत्यादिक्ष्लोत्रय द्वितीयवाक्योत्तरम् । अत्र शूरमात्रप्राप्यस्याजुनसाम्यस्येश्वर एव नियमनात् परिसख्यालकार । उपजाति ॥२५॥

 इतीति । इत्युक्तप्रकार तादृक्ष अतिबहुल तस्य मद्राणामध्यक्षस्य राज्ञ


  1. निकुङ्जम् इति पाठ
  2. ‘मत्वा’ इति पाठ
  3. ‘जीवित’ इति पाठ
  4. ‘त्र्क्ष्भुक्षकुमारे पक्ष’ इति पाठ ।