पृष्ठम्:चम्पूभारतम्.pdf/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
चम्पूभारते


 दु[१] शासनो नयनजृम्भितकोपवह्नि-
  भीत्येव फाळतलमूर्ध्वमुपाश्रिताभ्याम् ।
 भूभ्या भयानकमुखो रिपुभूमिपान-
  प्यारब्ध योधयितुमेतदतीव चित्रम् ॥ २९ ॥
स कुन्तलाल्यम्बरधूतिधु[२]पे स्वसिहनादैर्विदधे दु[३]राप ।
पराभव मोमकलास्यहेतौ पाञ्चालिकायामिव पार्थचम्वाम्॥३०॥
,

 ततो याज्ञसेनीकटितटपटापहारसमयचक्रचङ्कमणवासनानुवृत्तिबशादिव विविधानि रेचकमण्डलानि वितन्वन्निजास्पदभेदको


 इत पर क्ष्लोकद्वयमेकवाक्यम् । दु शासन इति । यत्तदोनियसबन्धात् यो दु शासन दुर्योवनानन्तरज नयनाभ्या जृम्भितात् निर्गतात् कोपादेव वह्ने भीया भयेनेवेत्युत्प्रेक्षा । ऊर्ध्व उपरितन फालतल ललाटप्रदेश उपाश्रिताभ्या सगताभ्याम् । कोपेन ग्रन्थीभूताभ्यामिति यावत् । भ्रूभ्या भयानक मुख यस्य तथोक्त्त सन् रिपून् भूमिपान् शत्रून् राज्ञोऽपि योधयितु भटान् कर्तु आरब्ध उपचक्रमे । इत्येतत् अतीव भृश चित्रम् । राज्ञामपि भटत्वकरणस्याश्चर्यकरत्वादिति भाव । अस्मिन्नर्थे यच्छब्द आकाङ्क्षलभ्य । तदसहिष्णुताया पुनारित्थमधेव्यम्। योषयितुमित्यत्र ‘य अधयितुम्’ इति च्छेद । रिपुभूमिपानपीत्यपिना कोपवहिसमुच्चय ।अधयितु अध कर्तुम्। अत्रायुधसाध्यारिपुभूमिपाध करणस्य भ्रूभङ्गमात्रेण सपादनोद्योगादाश्चर्यमिति वस्तुना कोपवह्निशत्रुवर्गयो अध करणेनौपम्यगम्यतात्मकतुल्ययोगिताप्रतीतेर्वस्तुनालकारध्वनि ।रभतेराड्पूर्वात्कर्तरि लुडि तड्॥२९॥

 स इति । दुराप परैरधृष्य स दु शासन सोमकाना पाञ्चालाना लास्यस्य युद्धनाट्यस्य हेतौ जनके सोमकला चन्द्रकान्तिरिव आस्यहेति मुखकान्ति यस्यास्तस्यामिति च अत एव पाञ्चालिकाया द्रौपद्यामिव स्थिताया पार्थचम्वा पाण्डवसेनाया कुन्तल चिकुर अलिश्च तद्वयमिव यदम्बर केशभ्रमरवन्नील आकाश तस्य धृतौ भङ्गे धुर्यै पटुभि स्वै स्वीयै सिंहनादै कुन्तलाले केशवृन्दस्य अम्बरस्य वस्त्रस्य च धृत्या धुर्यै । तघुक्त्तैरित्यर्थ । स्वै सिंहनादैरिति च । पराभव तिरस्कार विदधे चक्रे । क्ष्लिष्टविशेषणेयमुपमा पूर्णा । उपजाति ॥ ३० ॥

 तत इति । तत याज्ञसेन्या द्रौपद्या कटितटे नितम्बदेशे पटानामपहारस्य समये आकर्षणावसरे चक्रचङ्कमणस्य मण्डलाकारगमनस्य या वासना सस्कार तस्य अनुवृत्तिवशात् अनुसरणवशादिवेत्युत्प्रेक्षा । विविधानि रेचकाख्यानि मण्डलानि चक्रगमनानि वितन्वन् प्रकटयन् निजास्पदस्य स्वस्थानस्य उरस भेदक


  1. एतत्पूवम् ‘तदनन्तरम्’ इति कचित्
  2. ‘धुर्य ’ इति पाठ
  3. ‘दुरापम्' इति पाठ