पृष्ठम्:चम्पूभारतम्.pdf/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
चम्पूभारते

,

निजप्रियाकैश्यकुषोऽस्य शत्रोर्निभिद्य वक्ष पिबतोऽसृगम्भ ।
समीरसूनोश्च पिशाचिकाना सपीतिकेल्या कळहो बभूव ॥ ३३ ॥
एणीदृश स्वकीयाया वेणी तैरेव शोणितै ।
क्षोणीभृता द्विषामेष शोणीचक्रे सहाक्षिभि ॥ ३४ ॥
,

तदनन्तरम् ।

,

रिपून्कुरुक्षेत्रतले चरन्त तृणाय मत्वा वृषसेनसुत्रम् ।
किरीटिगोप परधेनुकान्त निनाय काण्डैर्यमलोकगोष्ठम् ॥३५॥
अबकर्य किरीटिभग्नमाजावभिमन्योरधिक सुत स कर्ण ।
रिपुरङ्कुतरक्षुरष्टदिक्षु ज्वलयश्चक्षुरभूदरीन्दिधक्षु ॥ ३६ ॥
,


निजेति । निजाय प्रियाया द्रौपद्या कैश्य केशवृन्द कर्षतीति कृष अत एव शन्नो अस्य दु शासनस्य वक्ष निर्भिद्य असृक् रक्तमेव अम्भ जल पिबत समीरसूनो भीमस्य च पिशाचिकाना च सपीतिकेल्या सहपानक्रीडाया कलह ममास्खधिक ममारत्वधिकमिति विवाद बभूव । उपजाति ॥ ३३ ॥

एणीति । एष भीम तै दु शासनीयै शोणितै पीतशिष्टैरेव स्वकीयाया एणीदृश द्रौपद्या वेणीं दु शासनशोणितसस्कार्यत्वेन बद्धा द्विषा शोणीभृता शत्रुभूपाना अक्षिभि सह शोणीचके रञ्जयामास । यथाप्रतिज्ञ दु शासनरधिरले पनकृति द्रौपदीवेणीमोचने भीमे कौरवा सवे कोपारूणिताक्षा बभूवुरित्यर्थ अतएव वस्तुना पदार्थहेतुक काव्यलिङ्ग ध्वन्यते ॥ ३४ ॥

तदनन्तरमित्युत्तरेणान्वय ।

रिपूनिति । रिपून् सस्यभक्षणविरोधिन शत्रूश्च तृणाय मत्वा । तृणवदना- दृत्येत्यर्थ । कुरुक्षेत्रतल एव कुरूणाक्षेत्रतले केदारभागे चरन्त सस्यानि भक्षयन्त गच्छन्त च परेषामेव घेनूना कान्त वल्लभ पर स्ववाचकोत्तरभाग धेनुशब्द- यया तया असिधेनुक्या नाम आयुधेन कन्तमिति च। ‘छुरिका चासिधेनुका’ इत्य मर । उग्र भयकरवृषसेन कर्णपुत्रमेववृषभश्रेष्ठ किरीटी अजुन एव गोप गोपाल- भूपश्च काण्डै दण्डै बाणैश्च यमलोक्मेव गोष्ठ गोस्थान निनाय प्रापितवान् । सम स्तवस्तुवर्ति क्ष्लिष्टाक्ष्लिष्टसावयवरूपकम् । उपेन्द्रवज्रा ॥ ३५ ॥

अवकर्णेति । अभिमन्यो अर्जुनपुत्रस्य स्वमारितस्य अधिक अत एक किरीटिना अर्जुनेन भग्न पुत्रमारणप्रतीकारात्मना निहत सुत पृषसेन अवकर्ण्य क्ष्रुत्वा चक्षु ज्वलयन् ' कोपाग्निना शोणीकुर्वन् रिपव एव रङ्कव हरिणा तेषा तरक्षु मृगविशेष । तदृष्टिमात्रेण हरिणा शिथिलप्राणा भवन्तीति प्रसिद्धि । स कर्ण अष्टास्वपि दिक्षु अरीन् दग्धुमिच्छु दिधक्षु अभूत् । पुत्रवधक्रोधपरवश


१ ‘रिपु' इति पाठ