पृष्ठम्:चम्पूभारतम्.pdf/४३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
चम्पूभारत।


,

तत्र तत्र युधि सचरमाण शल्यसारथिमता स रथेन ।
चूषितारिमदवा[१]रितासौ सूर्यसूनुरपि चण्डफरोऽभूत् ॥ ४१ ॥
रवे कुमारस्य रथ [२]समीक्ष्य रमाप्रियस्यापि तदा समीके ।
धैर्य हृद स्वेदजल शरीराज्जगाल तोत्र च जवेन हस्तात् ॥ ४२ ॥
 ,

तदनन्तरममर्त्यचत्र्कवर्तिविकर्तनतनयौ परस्पर [३]प्रधन प्र[४]वर्तयितुभारभेताम् ॥

,

राधाकुन्तीपुत्रयो शौर्यभाजोश्चत्र्कीभूतौ चापदण्डौ ज्वलन्तौ ।
मध्यस्थाया रङ्गभूदेवतायास्ताटङ्काभामाधाते स्म तत्र ॥ ४३ ॥
अवृकर्ण्य शरासवाल्लिघोष सुतयोस्तत्र सहस्रदृष्टिघृष्टयो ।
दिवि वैणिकतापसस्य चित्र महती प्रीतिरभूच्च नैव चाभूत् ॥ ४४ ॥
,


प्रकाश्य चेलु । मनिना परोत्कर्षासहिष्णुत्वादिति भाव । अत्र कालपृष्ठरक्त्तपृष्ठशब्दक्ष्लेषप्रतिभया तदुभयप्रकाशनेन विरोधिनोरनुरूपचेष्टासघटनात्मा समाल कार । कर्णबाणनिभिन्ना परे पलायाबभूवुरिति परमार्थ ॥ ४० ॥

 तत्र तत्रेति । शल्य सारथिरस्मिनस्तीति तेन रथेन तत्र तत्र युधि युद्धदेशे सचरमाण सूर्यस्य सूनु सोऽसौ कर्णेऽपि चूषित गिलित (९) अरीणी मद एव वारि येन तस्य भाव तत्ता तया हेतुना चण्डकर सूर्य भयकरपाणिश्च अभूत् । ‘आत्मा वै पुत्रनामासि’ इति श्रुतेरिति भावरूपकातिशयोक्त्तयोरङ्गाङ्गि भावेन सकर । स्वागता ॥ ४१ ॥

 रवेरिति । तदा समीके युद्धरङ्गे रवे कुमारस्य कर्णस्य रथ तत्तादृश समीक्ष्य रमाप्रियस्य कृष्णस्यापि हृद चित्तात् धैर्य शरीरात् स्वेदजल हस्तात् तोत्र अश्वताडन च जवेन भयवेगेन जगाल गलति स्म । गलते कर्तरि लिट् । अत्र जगाळेत्युभयावृत्तिदीपकम् । उपजाति ॥ ४२ ॥

 तदनन्तरमिति । तदनन्तर अमर्त्याना देवाना चक्रवर्तिन इन्द्रस्य तनय अर्जुन विकर्तनस्य सूर्यस्य तनय कर्णश्च तौ परस्पर प्रधन द्वन्द्वयुद्ध प्रवर्तयितु आरभेताम् ॥

 राधेति । शोर्यभाजो राधाकुन्तीपुत्रयो कर्णार्जुनयो सबन्घिनौ चक्रीभूतौ गुणाकर्षणेन कुण्डलितौ ज्वलन्तौ चापदण्डौ तत्र तदानी मध्यस्थाया कर्णाजुनमध्यगताया रङ्गभूदेवताया युद्धस्थलदेषताया ताटङ्कयो कर्णभूषणयो आभ आदधाते स्म चक्रतु । कर्णिके इव रेजतुरित्युत्प्रेक्षा । शालिनीपृत्तम् ॥ ४३ ॥

 अवकर्ण्येति । सहस्र दृष्टयो नेत्राणि धृष्टय किरणाश्च ययोस्तयो इन्द्रसूर्ययो सुतयो अर्जुनकर्णयो । शरासौ चापौ वल्ली इव तयो घोष गुणटकार


  1. ‘पाणितया' इति पाठ
  2. ‘निरीक्ष्य'इति पाठ
  3. ‘समर’ इति पाठ
  4. ’प्रावतयितु’ इति पाठ