पृष्ठम्:चम्पूभारतम्.pdf/४३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
चम्पूभारते


 पार्थस्य मार्गणगण पतित शरीरे
  सार्थ व्यधादभिमत स वितीर्य जीवम् ॥ ५५ ॥
[१]र्णेऽथ कर्णेन्द्रियमात्रपात्रे दुर्योधन शोकरसे ममज्ज ।
अभ्यासभूमानमिवाधिरोदुमनागतस्य हृदमज्जनस्य ॥ ५६ ॥
तत स्वकीयस्य तनूभवस्य वधाज्जल[२]रन्नातुमना इव द्राक् ।
मन्दायमानघुतिमाल [३]भारी मरीचिमाली च ममज्ज सिन्धौ ॥ ५७ ॥
,

इत्यनन्तभट्टकविकृतौ चम्पूभारते एकादश स्तबक समाप्त ।


भ्रावैस्त्रिविधेष्वपि मार्गणगणेषु याचन्देषु खर्वेतरा अनल्पा आडति आदरण यस्य तयीक्त्त सोऽय खमणे सूर्यस्य कुमार कर्ण शरीरे पतित स्वाङ्गे सक्त्त पार्थस्य अर्जुनस्य सबन्धिन मार्गणगण याचफवृन्द बाणवृन्द च । अभिमत अत्यन्तमिष्ट जीव प्राणधारण वितीर्य सार्थ सप्रयोजन व्यधात् चक्रे । दधातेर्विपूर्वात्कर्तरि लुड् । निसर्गवदान्याना कि न देयमिति भाव । कर्णो ममारेत्यर्थ । अत्र बहुप्रदत्वप्रयुक्तसर्वयाचकमहादरस्य विशेषणगत्या पार्थमार्गणसप्रयोजनीकरणहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । मार्गणशब्दक्ष्लेषभित्तिकालब्धयाचकबाणद्वयाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितमिति तयोरङ्गाङ्गिभावेन सकर । अत्र ’मार्गणगणेषु' इत्येव पाठ । ‘थाचकजनेषु’ इति पाठ पर्यायभङ्गाख्यदोषादुक्त्तस्बरस्यायोगाच्चोपेक्ष्य । वसन्ततिलका ॥ ५५ ॥

 कर्णेति । अथ कर्णे कर्णेन्द्रियमात्रस्य श्रोत्रस्यैव पात्रे विषये सति । न तु नेत्रस्येत्यर्थ । नाममात्रशेषत्वेन मृते सतीति यावत् । दुर्योधन शोकरसे दु खाव्धौ । अनागतस्य भविष्यत हदे मज्जनस्य अभ्यासे परिचये भूमान अतिशय अधिरोढ लब्धुमिवेत्युत्प्रेक्षा । ममज्ज । मज्जते कर्तरि लिट्। अत्र कर्णनिधनस्य दुर्योधनशोकाब्धिमज्जनहेतुत्वात् पदार्थहेतुक काव्यलिङ्गम् । उक्तोत्प्रेक्षोज्जी वकमिति द्वयोरङ्गाङ्गिभावेन सकर । उपजाति ॥ ५६ ॥

 तत इति । तत मरीचिमाली च सूर्योऽपि स्वकीयस्य तनूभवस्य कर्णस्य वधात् द्राक् द्रुत जलानि स्नातु मनो यस्य तथोक्त्त इवेत्युत्प्रेक्षा । मन्दायमानाया क्षीणीभवन्त्या घुतिमालाया किरणपदेक्त्त भार अतिशय अस्यास्तीति भारी सन् सिन्धौ समुद्रे ममज्ज । अस्त जगामेत्यर्थ । ‘इष्टकेषीकामालाना चिततूलभारीषु’ इति मालाशब्दस्य हस्वान्तत्वम्। मरीचिमाली चेति चकारेण दुर्योवनसमुच्चय । उपजाति ॥५७॥

इति श्रीसदाशिवपदारविन्दवनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने एकादशस्तबकविवरण समाप्तम् ।


  1. ‘अपि’ इति पाठ
  2. ‘अपस्ना' इति पाठ
  3. ‘भारमाली’ इति पाठ