पृष्ठम्:चम्पूभारतम्.pdf/४३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३९
द्वादश स्तबक ।


गूढ़ावस्थितिरेव महती ममायुष्टोमेष्टिरित्यालोच्य झटिति घटितकवचावगुण्ठन पन्नगकेतन [१]समन्तपञ्चके सामन्त सागरगम्भीर [२]त्वरितनामान कचन महाह्रदमासाद्य मद्भुजेन चिरधार्यमाणा क्षोणीं त्वय्येव समर्पयिष्यामीति पातालवासिन पन्नगाधिपतेर्द्विसहस्त्रलोचनेषु रहसि [३]वाचा निवेदयितुमिव दूर दूर निमज्य स्वविद्यया सर्वमप्यम्भ स्तम्भयामास ॥

,

बकहन्ता पुराघासौ धार्तराष्ट्रवधोद्यत ।
इति भीतस्य राज्ञोऽस्य युक्त कासारमञ्जनम् ॥ ६ ॥
,,

दरीषु वा शिखरि[४]तटीझरीषु वा पुरीषु वा घनबन[५]वल्लरीषु वा । तिरो भवेदयमिति त स मार्गित रणस्थलास्पवनसुतोऽथ निर्ययौ॥७॥


यस्य तथोक्त । सा बसाक्रान्तचित इत्यर्थ । अत एव वचन दुर्ज्ञेये देशे गूढ यथा तथा अवस्थितिरेव । महती क्ष्लाध्या मम आयुष्टोम जीवितकालसमूह एव इष्टि यागविशेष । आयुष्टोमस्य इष्टि तज्जनकयाग इति वा । निश्चितोपायश्च । इत्युक्त्तप्रकारं आलोच्य । झटिति सत्वरं घटित कृत कवचस्य अवगुण्ठन धारण यस्य तथोक्त । पन्नग सर्प केतने यस्य स दुर्योधन । समन्ताना नामतीर्थाना कुंरुक्षेत्रस्थाना पश्चकस्य सामन्त समीपे वर्तमान सागरमिव गम्भीर अगाध त्वरित मिति नाम यस्य त कचन महान्त विस्तीर्णे ह्णद सर आसाद्य प्राप्य भम भुजेन चिर दीर्घकालेन धार्यमाणा क्षोणिं भूमिम् । हे पन्नगाधिप, त्वरयेव इत्येवकारेण युधिष्ठिरयवच्छेद । समर्पयिष्यामीत्युक्तप्रकारेण वचसा पातालवासिन पन्नगाधिपते शेषस्य द्विसहस्रयोर्लोचनेषु श्रवणात्भकेषु रहसि वाचा निवेदयितुमिवेत्युत्प्रेक्षा । दूर दूरं अत्यन्तदूर यथा तथा। वीप्साया द्विर्भाव । निमज्य । स्वनिद्यया जलस्तम्भिन्या सर्व अम्भ जलमपि महाहृदीय स्तम्भयामास ॥

 बकेति । पुरा एकचक्रावाससमये प्रथममिति च । बकानां नाम पक्षिणा बकस्य असुरविशेषस्य च हन्ता असौ भीम । अद्य पश्चाच्च धार्तराष्ट्रानां नीलहसाना धृतराष्ट्रसुताना च। वधे उद्यत उघुक्त्त इत्युक्त्तहेतो भीतस्य अस्य राज्ञ थार्तर स्य कासारे सरसि मज्जन युक्त्त उचितमेव । कासारवासिनामन्यत्र हृन्त र्यागते शेषणा पलायनस्य मज्जनस्य लोकसिद्धत्वादिति भाव । अत एवानुरूपसधटनात्मक समाळकार क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर ॥ ६ ॥

 वरीष्विति । अथ स दुर्योधन दरीषु गुहासु वा । शिखरिण शैलाना


  1. ‘स्यमन्तपञ्चकसामन्त' इति पाठ
  2. ‘स्वरित' इति पाठ
  3. ‘वचनानि' इति पाठ
  4. ‘सरिज्झरीषु ’ इति पाठ
  5. ‘नव' इति पाठ