पृष्ठम्:चम्पूभारतम्.pdf/४४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
द्वादश स्तबक ।

,

तस्मिन्काले विचिन्त्य क्षितिपतिमसुभिर्युक्तमासाद्य रङ्गे
 तैस्तैराश्वास्य लापैर्निजमपि समरे भावि कृत्य निवेद्य ।
मुक्तस्तेनार्धमर्गे। हरवरमुदितो द्रोणभूश्वापमौर्व्या
 धृष्टघुम्न निकृत्य स्वसुरपि तनयानस्य चिच्छेद शूरान् ॥ १५ ॥
 ,

 इत्थ निशीथे भयानकनिजसायकशतधाशक[१]लीकृतद्विषदनेकानीकात्कुरुनायकपटनिकेतनात्स्वभुजाभ्यामिव प्रविष्टकटकाभ्या कृपकृतवर्मभ्या सह पुनरपि सरस्तीरमागत्य दुष्कर स्ववृत्तान्त कथयन्तमश्वत्थामान [२]प्रति 'अयि सखे, सप्रति मम प्रीतिरेतावती’ इत्यभिनेतुमिव तिर्यक्प्रसारितेन बाहुयुगलेन यत्नादाक्ष्लिष्य ‘त्वमेवे स्वलुमम प्राणो भवसि’ इत्यौपचा[३]रिक वचन प्रयुञ्जान [४] राजान कोपादिव तदीया प्राणास्तदानीमत्याक्षु ॥


वितरणसमये भासा प्रभो सूर्यस्य करात् किरणात् हस्ताच दिशि दिक्ष्विति जात्येकवचनम् । विप्रकीर्णै व्यातै धूमैरिव स्थितैरित्युत्पेक्षा । अक्ष्णो पन्थान रुन्धन्तीति अक्षिपथरोधिभि अन्धकारै तमोभि कुरुक्षितिभृता । पाण्डवाना पटमण्डपाना वस्त्रगृहाणा ओघ समूह भूयोऽपि भृश प्रापे प्राप्तम् । प्रपूर्वादाप्नोते कर्नणि लिट। वसन्ततिलका ॥ १४ ॥

 तस्मिन्निति । तस्मिन् अन्धकाराक्रान्ताखिलदिगन्तरे काले द्रोणभू अश्व- त्थामा रङ्गे युद्धभुवि विचिन्त्य अन्विष्य असुभि प्राणै युक्त्त क्षितिपतिं दुर्योधन आसाद्य प्राप्य तैस्तै आपद्धर्मोचितै लापै वाक्यै आश्वास्य विशोक कृत्वा समरे रात्रियुद्धे भावि भविष्यत् निज कृत्य सर्वपाण्डवहननमपि निवेद्य विज्ञाप्य तेन दुर्योधनेन मुक्त अनुज्ञात सन् । अर्धमार्गे मागमध्ये हरस्य शभो वरेण सर्वानुल्लङ्घयत्वात्मकेन मुदितश्च सन् । धृष्टघुम्न चापमौर्व्या निकृत्य छित्वा। अस्य धृष्टघुम्नस्य स्वसा द्रौपदी तस्या द्रौपद्य सबन्धिन शूरान् पुत्रान् उपपाण्डवानपि चिच्छेद । मारयामासेत्यर्थ । स्रग्धरावृत्तम् ॥ १५ ॥

 इत्थमिति । इत्थ उक्तप्रकारेण निशीथे अर्धरात्रे भयानकै निजै सायकै बाणै शतधा शकलीकृत लवशश्छिन खङ्गदारित वा । ‘शरे खङ्गे च सायक इत्यमर । द्विषता पाण्डवाना सबन्धि अनेक असख्येय अनीक सैन्य यस्मिस्तस्मात् कुरुनायकस्य धर्मराजस्य पटनिकेतनात् वस्नगृहात् प्रविष्ट प्राप्त कटक शिबिर वलयभूषण च याभ्या तौ अत एव स्वभुजाभ्यामिव स्थिताभ्या कृपेण कृतवर्मणा च द्वाभ्या सह । पुनरपि सरस त्वरितनाम्न तीर आगत्य दुष्कर


  1. ‘शकलित इति पाठ
  2. ‘प्रति’ इति नास्ति कचित् :
  3. ‘चारिक’ इति पाठ
  4. ‘त राजन इति पाठ