पृष्ठम्:चम्पूभारतम्.pdf/४४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४४
चम्पूभारते


 कृपस्तत कुरुपुरी कृतवर्मा कुशस्थलीम् ।
 प्रययौ द्रोणसूनुश्च पाराशर्यतपोवनीम् ॥ १६ ॥
अथ दीप्तिभिरात्मनो विजेतुर्यिमतद्रौणिशिरोमणेर्भवित्रीम् ।
सहजास्पदभङ्गमानहानि ख [१]मणिर्द्रष्टुमिवोदयाद्रिमागात् ॥ १७ ॥
,

 तदन[२] न्तरमात्मसोदरसूतसुखाच्छूवणकालकूटमपत्यात्ययमधिगम्य विषीदन्त्या याज्ञसेन्या मूर्च्छान्धकार रत्नदीपालोकेन दूरमुत्सारयितुमुत्सुक इव गुरुसुताहरणाय शताङ्गमधिरुह्य मौर्वीं विस्फारयद्भिर्मघवत्कुमारादिभिर्मास [३]लितपार्श्वभागो मारुतिस्तपस्यस्तस्यैवाश्रमपद[४]भाग प्रतस्थे ॥


अन्यै कर्तुमशक्य स्वस्य वृत्तान्त सौप्तिकहननव्यापार कथयन्त अश्वत्थामान प्रति । अयि सखे सप्रति इदानींतनी मम मदीया प्रीति एतावती इयत्परि- माणा इत्युक्तप्रकारेण अभिनेतु हस्तनिर्देशेन सूचितुमिवेत्युत्प्रेक्षा । तिर्यक्प्रसा- रितेन बाह्वोर्युगलेन यत्नात् अतिकष्टात् आक्ष्लिष्य त्वमेव मम प्राणो भवसि । खल्विति वाक्यालकारे । इत्युक्तप्रकार औपचारिक प्रश्रयसहित वचन प्रयुञ्जान ब्रुवन्त राजान दुर्योधन कोपात् अन्तरेणास्मान् अश्वत्थामान प्राणत्वेन वृणोतीत्याका- रकादिवेत्युप्रेक्षा । तस्य दुर्योधनस्य इमे तदीया प्राणा तदानी तत्क्षणमेव अत्याक्षु त्यक्तवन्त । अत्रातिप्रियत्वेन प्राणत्वेनाध्यवसायमूलातिशयोक्त्यनुप्रा णितत्वादुक्कोत्प्रेक्षाया द्वयोरङ्गाङ्गिभावेन सकर ॥

 कृप इति । तत कृप कुरुपुरी हास्तिनपुरी प्रति ययौ । कृतवर्मा कुशस्थलीं द्वारका प्रति ययौ । द्रोणसूनु अश्वत्थामा च पाराशरस्य व्यासस्य तपोजनीं आश्रमवन प्रति ययौ ॥ १६ ॥

 अथेति । अथ खमणि सूर्य दीप्तिभि स्वकान्तिभि आत्मन विजेतु जयशीलस्य अतएव विमतस्य शत्रो द्रौणिशिरोमणे अश्वत्थामशिरोरत्नस्य भवित्री भाविनी सहजस्य जन्मसिद्धस्य आस्पदस्य स्थानस्य अश्वत्थामशिरोरू पस्य भङ्ग भीमकृत एव मानहानि ता द्रष्टुमिवेत्युत्प्रेक्षा । उदयाद्रिं आगात् । उदितोऽभूदित्यथ । औपच्छन्दसिकम् ॥ १७ ॥

 तदिति । तदनन्तर आत्मन सोदरस्य धृष्टघुम्नस्य सबन्धिन सूतस्य सारथे मुखात् वचनात् श्रवणयो काळकूटम्। कर्णकठोरमितियावत् । अपत्याना उपपा- ण्डवाना अत्यय नाश अश्वत्थामकृत अधिगम्य श्रुत्वा विषीदन्त्या भृश शोचन्त्या याज्ञसेन्या द्रौपद्या मूर्च्छामेव अन्धकार रत्नमेव दीप तस्यालोकेन तेजसा


  1. ‘सविता’ इति पाठ
  2. ‘तत परम्’ इति पाठ
  3. 'गुरुसुतचूडामणेराहरणाय' इति पाठ
  4. ‘पद प्रतस्थे’ इति पाठ