पृष्ठम्:चम्पूभारतम्.pdf/४४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४७
द्वादश स्तबक ।


चितकरास्फालनाभि सवि[१]धमागत्य भज्जन्मभूसौन्दर्यप्रातिभट्थमियमा[२]चरतीत्यसहिष्णुतयेव कपोलमकरिकामुन्मूलयन्त बाष्पप्रवाह नयनैरुत्सृजन्तीभिरनवरतमस्माक्ष्चि[३]कुरहस्तान्कुसुमैरामोदभरितान्विदधाना सुयोधनादय क्क पतिता । इति गवेषयितुमिव भुवि दू[४]रविकीर्णैश्चिकुरहस्तैरुपलक्षिताभि पवनसु[५]तपरिघोपालम्भनपरिपूरितार्थै वि[६]लापैर्दिगन्तर निरन्तरयन्तीभि स्त्रुषाभि परिवार्यमाणया गान्धारसुतया शनै शनै[७]रनुगम्यमान सम्रामभुवमवगाह्य पङ्किश [८]परिशीलितदीर्घनिद्रेषु पाकशासनमु[९]क्तपारिजातप्र [१०]सवपरिमलितकचबन्धेषु प्रवीरेषु तनयेषु निपत्य परितो विलु[११] ण्ठन्कुरुभूपतिश्चिरमरोदीत ॥


अद्यापि न निर्गता इत्युक्तप्रकारेण रोषेण प्राणान् बहिरुत्सारयितु निर्गमयितुमि वेत्युत्प्रेक्षा। हृदि वक्षसि पुन पुन विरचितानि कराभ्था आस्फालनानि कठिनताडनानि याभिस्ताभि इय कपोलमकरिका मम जन्मभुव नेत्रस्य सौन्दर्येण प्रतिभटस्य सदृशस्य भाव प्रातिभव्य आचरति इत्युक्तप्रकारया असहिष्णुतया असूययेवेत्युत्प्रेक्षा । सविध समीप प्रत्यागत्य कपोले मकरिका कस्तूर्याद्रिरचित मीनाकृतिरेखा उन्मूलयन्त क्षालयन्त बाष्पप्रवाह नयनै उत्सृजन्तीभि वर्षन्तीभि । तद्भेदा शिशुमारोद्रशङ्कवो मकरादय' इत्यमरकोशे तेषा मत्स्याना भेदा । अवान्तरजातय इत्यर्थ । अतएव टीकासर्वस्चे ‘प्रघुम्नो मीनकेतन ’ इत्यत्र मत्स्यजातित्वान्मीन एव मकर इत्युक्तमिति ध्येयम् । अस्मान् चिकुरहस्तान् कुसुमै मालतीमल्लिकादिभि अनवरत सर्वदा आमोदेन पारिमलेन सतोषेण च भरितान् पूर्णान् विदधाना कुर्वाणा सुयोधनादय क कुत्र पतिता इत्युक्तप्रकारेण । प्रेम्णेति शेष । गवेषयितु अन्वेषयितु इवेत्युत्प्रेक्षा । भुवि दूर विकीर्णै स्नस्तै चिकुरहस्तै देशपाशै उपलक्षिताभि सगताभि पवनसुतपरि वस्य भीमगदाया उपालम्भने निन्दाया विषये परिपूरित अर्थ हा कठोरे, किमकाण्डेऽस्माकमियती विपत्तिर्भवत्या प्रत्यानीतेत्यादिरूप अभिधेय यैस्तै विलापै परिदेवनशब्दे दिशा दशाना अन्तर मध्यभाग निरन्तरयन्तीभि सान्द्रीकुर्वतीभि स्नुषाभि पुत्रपत्नीभि परिवार्यमाणया गान्धारसुतया गान्धार्या


  1. ‘आगम्य’ इति पाठ
  2. ‘आचरन्ति’ इति पाठ
  3. 'चिकुरहस्तान्’ इति नास्ति केचित्
  4. ‘तूर्णमवतीर्णै’ इति पाठ
  5. ‘पूरितार्यै ’ इति पाठ
  6. ‘परिदेवनरवै’ इति पाठ
  7. ‘अभिगम्यमान’ इति पाठ
  8. ‘निपतितेषु परि’ इति पाठ
  9. ’परिमुक्त’ इति पाठ
  10. ‘कुसुम’ इति पाठ
  11. ‘अपि परिलुण्ठस कुरुभूप’ इति पाठ