रुष्ट पितृव्यममुमागतमाजिभूमौ
द्रष्ट भयाकुलधियाथ युधिष्ठिरेण ।
अभ्यर्थितौ हरिपराशरनन्दनौ द्रा-
गाजग्मतुस्तमपनीतरुष विधातुम् ॥ २२ ॥
त व्यासकृष्णाव[१]भितप्यगान शोकेन शान्त सुतरा व्यधत्ताम् ।
नभोनभस्याविव दाववृक्ष दन्दह्यमान दवपावकेन ॥ २३ ॥
अथ सहजै [२][३]सह महाहवभुवमासाद्य ‘स्वामिन्, अनेकविधापराधकरणेन तव शापपात्र जनोऽयमागत ’ इति चरणयो [४][५]ग्रणमन्त-
शनै शनै पुत्रशोकभरा मन्द मन्द अनुगम्यमानश्च सन् । सग्रामभुव युद्धभुव अवगाह्य प्रविश्य । पट्क्क्तिश परिशीलिता अभ्यस्ता दीर्घनिद्रा मरण यैस्तेषु । पाकशासनेन इन्द्रेण सुत्तै शौयान्नन्दनेन पृष्टे पारिजातप्रसवै परिमलिता सजातपरिमला कचबन्धा धम्मिश्र येषा तेषु प्रवीरेषु शूरोत्तमेषु तनयेषु दुर्योधनादिषु निपत्य परितो विलुण्ठन् विवर्तयन् सन् । चिर अरोदीत् रोदिति स्म । स्दे कर्तरि लुड् ॥
रुष्टमिति ।अथ आजिभूमौ युद्धरङ्गे आगत कि च रुष्ट पुत्रहननादात्मनि त्र्कुद्ध अतएव पितृव्य पितुर्भ्रातर अमु धृतराष्ट्र द्रष्टु भयेन आकुला धी यस्य तेन युधिष्ठिरेण अभ्यथितौ तत्कोपशमनाय प्रार्थितौ हरि श्रीकृष्ण पराशरनन्दन व्यासश्च द्वौ । त धृतराष्ट्र अपनीता निरस्ता रूट् कोध यस्य तथोक्त विधातु कर्तु द्राक् सत्वर आजग्मतु आगतवन्तौ ॥ २२ ॥
तमिति । व्यासश्च कृष्णश्च द्वौ । शोकेन पुत्रदु खेन अभितप्यमान त धृतराष्ट्रम् । नभोनभस्यौ श्रवणभाद्रपदमासौ दवपावकेन वनानलेन दन्दह्यमान अत्यन्त प्लुष्यमाणम् । यडन्ताद्दहते कर्मणि लट शानच् । दावृक्ष वनतरुमिव। सुतरा शान्त गतक्रोध निर्वापितवनानळ च व्यधत्ता चक्रतु । विपूर्वाद्दधाते कर्तरि लुड्। ‘नभा श्रावणिकश्च स ’, ‘स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदा समा ‘, ‘दवदावौ वनारण्यबही’ इति क्रमेण सर्वत्रामर । उपमालकार । उपजाति ॥ २३ ॥
अथेति । अथ तोधशमनानन्तर युधिष्ठिर सहजै भीमादिभिश्चतुर्भि सह महत लोकोत्तरस्य आहवभुव युद्धदेश आसाद्य प्राप्य । हे स्वामिन् महाप्रभो, अनेकविधाना अपराधाना करणेन हेतुना | तव शापपात्र अय पुरोवर्ती जन धर्म राज आगत इत्युक्तप्रकारम् । उक्त्वेति शेष । चरणयो प्रणमन्त नमस्कुवन्त आत्मान प्रथमत आदौ मृदुळ लघुस्पर्श यथातथा आलिङ्गितवन्त पश्चात् अनन्तर भावनज्ञेन आलिङ्गनेन भीम पुत्रहन्तार भस्मीकरोमि इति धृतराष्ट्राशथ