पृष्ठम्:चम्पूभारतम्.pdf/४४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४९
द्वादश स्तबक ।


मात्मान प्रथमतो मृदुलमालिङ्गितवन्त पश्चाद्भावज्ञेन मुकुन्देन पुरस्थापितेन लोहभीमसेनेन सह निजवैरमपि चूर्णीकृतवन्त प्रज्ञादृश पुरस्कृत्य स्मृतबहुलकरणीयजातो युधिष्ठिर पुरा भगीरथ इव प्रेतभूय गताय सर्वस्मै ज्ञातिजनाय निर्मलैर्निलिम्पनिम्नगासलिलैर्निवापाञ्चलिनिर्वापण विधिवदेव निर्वर्त [१]यामास ॥

[२]शुभाब्घिवीचीरिव तोरणावलीस्ततो वहन्ती ततवाद्यनिस्वनाम् ।
हरि पुरोधाय सम सहोदरैरविदात्मीयपु [३]री युधिष्ठिर ॥ २४ ॥
वळग्नसू[४]त्रैर्द्रुपदात्मजाया वितानिते धाम्नि स तत्र चेलै ।
स्थित्वा पितृव्यस्य दिन तदेक परेऽह्नि पार्थ प्रययौ स्वगेहम् ॥२५॥


विदा सुकुन्देन श्रीकृष्णेन पुर आलिङ्गनदेशे स्थापितेन लोहमयेन भीमसेनेन सह । निज वैर पुत्रवधजन्य विरोधमपि चूर्णीकृतवन्तम् । द्वयमपि नाशितवन्तमित्यर्थ । प्रज्ञादृश अन्ध धृतराष्ट्र पुरस्कृत्य समान्य । स्मृत चिन्तित बहुलाना अनेकेषा करणीयाना अग्रे कर्तव्यकर्मणा जात धृन्द येन तथोक्त सन्नतएव, प्रेतभूय गताय । मृतायेत्यर्थ । सर्वस्मै ज्ञातिजनाय बन्धुलोकाय । पुरा कृतयुगे भगीरथ इव । निर्मलै निलिम्पनिम्नगाया गङ्गाया सलिलै जलै कृता निवापाजलय अञ्जलिपरिमिततर्पणोदकानि येन तथोक्त सन् । निर्वापण सचयन विधिवत् यथाशास्त्रमेव निर्वर्तयामास कृतवान् ॥

 शुभेति । तत युधिष्ठिर । शुभानि कल्याणान्येव अब्धि समुद्र तस्य वीची तरगाणीव स्थिता तोरणाना पल्लवपुष्पमणिवस्त्रदिप्रोतगृद्दद्वारस्तम्भादिधटितयन्त्रविशेषाणा आवली पट्क्त्ती वहन्तीम् । तता विस्तृता वाघाना भेरीमृदङ्गादीना निस्वना यस्या ता आत्मन इमा आत्मीया पुरी हास्तिनपुर हैरिं पुरोधाय अग्ने कृत्वा सहोदरे भीमादिभि सम अविक्षत् प्रविष्टवान् । विशते कर्तरि लुड् । च्ले ‘शल इगुपधादनिट क्स ’ इति क्स । वशस्थम् ॥ २४ ॥

 वलग्नेति । तत्र पुरे स पार्थ युधिष्ठिर दुपदात्मजाया द्रौपद्य बलग्नमूत्रै काञ्चीगुणै चेलै दु शासनाकृष्टै वस्नैश्च । वितानिते सजातोल्लोचे । इति दुर्योवनदौरात्म्योक्ति । पितृव्यस्य धृतराष्ट्रस्य धाम्नि गृहे तत्प्रवेशोपलक्षित एक दिन स्थित्वा परेऽह्नि दिने स्व आत्मीय गेह गृह प्रययौ प्रविष्टवान् । शत्रुजयलरूधस्य राज्ञामभ्यर्हितत्वात्परेऽह्नीत्युक्तम् । उपजाति ॥ २५ ॥


  1. ‘निवतयामास’ इति पाठ
  2. ‘सुधाग्धि' इति पाठ
  3. ‘पुर’ इति पाठ
  4. ‘सूमै’ इति पाठ