पृष्ठम्:चम्पूभारतम्.pdf/४५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
चम्पूभारते

तत ।

राज्याभिषेकसलिलादिव सगत द्रा-
 गावर्तमुद्वहति मूर्धनि धर्मसूनो ।
कृष्णादय शुभगुणे कृतिनो मुहूर्ते
 हैम [१]व्यधुर्मुकुटमुज्ज्वलरत्नजालम् ॥ २६ ॥

द्विजप्रणामेषु नृपस्य लग्ना भूरेणुराजिर्भुजसीम्नि रेजे ।
एकाधिकद्वादशहायनेषु क्षिति कृशाङ्गी विरहादिवास्य ॥ २७ ॥

तदानीमेव पराशरसुतविदुरसजयै सह सभाषमाण रमारमणमग्रतो नि[२]धाय सविनय [३]युयुत्सुना दीयमानहस्तावलम्बो भूभारलघु[४]करणेन प्रीयमाणैर्दिग्वारणै प्रेषितमिव महान्त [५]कचिदौपवाह्यमधिरूढ शशिमण्डलेन [६][७]शर्वरीप्रथमयाम इव धवलातपत्रेण परिष्क्रियमाणोपरिभागो लालनवशेन पार्श्वयोरागत्य प्रमोदतरलपक्षपु-


तत इत्युत्तरेणान्वय ।

 राज्येति । तत कृतिन कर्तव्यनिपुणा कृष्णादय द्राक् सत्वरम् । राज्ये अभिषेकस्य पट्टभिषेकस्य सबन्धिन सलिलात् सगतमिव स्थित आवर्त चक्रवति लक्षण सव्यगतिचकाकृतिकेशसस्थानविशेष जळभ्रमि च । उद्वहति बिभ्रति धर्म सूनो युधिष्ठिरस्य मूर्धनि शिरसि । उज्ज्वल रत्नाना पद्मरागादीना जाल समूह यस्मिस्तथोक्तम् । हेम्नो विकार हैम मुकुट किरीटम् । शुभा गुणा चन्द्रताराब लादय यस्मिस्तथोक्ते मुहूते लग्ने व्यधु निहितवन्त । वसन्ततिलका ॥ २६ ॥

 द्विजेति । द्विजेभ्य व्यासादिभ्य प्रणामेषु । साष्टाङ्गनमस्कारकालेष्वित्यर्थ । नृपस्य युधिष्ठिरस्य भुजयो सीम्नि देशे । लग्ना भूरेणुराजि । एक हायन अधिक येषा तेषु द्वादशसु हायनेषु । त्रयोदशसवत्सरेष्वित्यएर्थ । अस्य नृपस्य विरहात् वियोगाद्धेतो कृशाङ्गी क्षिति भूमिरिवेत्युत्प्रेक्षा । रेजे रराज । उपजाति ॥२७॥

 तदानीमिति । तदाना किरीटधारणद्विजप्रणामसमनन्तरमेव । पराशरसु तेन व्यासेन विदुरेण सजयेन च धिभि सह सभाषमाण योगक्षेमार्थ मन्त्र यमाण रमारमण श्रीकृष्ण अप्रतो निधाय पुरस्कृत्य । युयुत्सुना धार्तराष्ट्रेण वैश्यापुत्रेण सविनय यथा तथा दीयमान हस्तावलम्ब यस्य तथोक्त सन् । भूभारस्य आत्मीयस्य लघुकरणेन मोचनेन हेतुना प्रीयमाणै तुष्यद्भि दिक्षु वारणै ऐरावतादिभि प्रेषित उपायनीकृतमिव स्मितमित्युत्प्रेक्षा । महान्त कचित् अनुपम औपधह्य राजवाह्य मदगज अधिरूढ सन् । ‘राजवाह्यस्त्वौ पवाह्य ’ इति गज विशेषपर्यायेष्वमर । शशिमण्डलेन चद्रबिम्बेन शर्वर्या


  1. ‘न्यधु ’ इति पाठ
  2. ‘विधाय’ इति पाठ
  3. बीभत्सुना’ इति पाठ
  4. “करणोपकारेण’ इति पाठ
  5. ‘कचिद्विपमौप’ इति पाठ
  6. ‘शारद्राकार्वरी’ इति पाठ
  7. ‘आगम्य’ इति पाठ