पृष्ठम्:चम्पूभारतम्.pdf/४५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५१
द्वादश स्तबक ।


टाभ्या मरालपतीभ्या चतुर्मुख इव चामराभ्यामुपवीज्यमानो हम्यैशिखरावलम्बिनीना पु[१]रनितम्बिनीना कपोलफ[२]लकस्खलनदूरविप्रकीर्णैरानन्दबाष्पबिन्दुमुकुलैरिव लाजाञ्जलिभिरवकीर्यमाण पुर सरविविध[३]वाद्यगुरुजनशिष्यायमाणगवाक्षपरम्परा ता न[४]गरी प्रदक्षिणीकृत्य द्वारभुवमवतीर्णो निजमणितिलकप्रति[५]बिम्बानिव दीपाङ्करान्कनकपात्रमध्ये वहन्तीभिर्वारसीमन्तिनीभिर्विरचि[६]ताराजिकमङ्गल पाण्डुसूनुर्निबिडवितानमाल्यधूपपरिमलसुरभिले मण्डपे कुरुकु[७][८]लक्रमागत सर्वतोभद्र नाम सिहासनमध्यवात्सीत् ॥


रात्र्या प्रथमो याम इव । धवलेन आतपत्रेण च्छत्रेण परिष्क्रियमाण उपरिभाग मूर्धोर्ध्वदेश आकाशप्रदेशश्च यस्य तथोक्त्त सन् । लालनवशेन पोषणवात्सल्यवशेन आगत्य समीप प्राप्य पार्श्वयोरभयो प्रमोदेन तरले चलती पक्षपुटे याभ्या । ताभ्या मरालदपतीभ्या हसजायापतीभ्या उपवीज्यमान । चतुर्मुख व्रह्येव चामराभ्या उपवीज्यमान सन् । इर्म्थाणा धनिकगृहाणा शिखरेषु अवलम्बिनीना आरूढाना पुरे नितम्बिनीना अङ्गनाना सबन्धिभि कपोलौ फलके इव तयो स्खलनेन दूर विप्रकीणै विक्षितै आनन्दवाष्पबिन्दवो मुकुळा नीच । तैरिव स्थितै लाजाञ्जलिभि अवकीयमाण सन् । पुर सराणा पुरोगाणा विविधाना ततसुषिरघननद्धरूपाणा वाघाना वीणावेणुमृदङ्गादीनामेव गुरजनाना शिष्यवदाचरन्ती तदुक्तशब्दपुनरुच्चारयित्री शिष्यायमाणा गवाक्षाणा परम्परा यस्या तथोक्त्ताम् । प्रतिध्वनद्वाक्षामिति यावत् । ता नगरी पुरी पूर्वोक्ता प्रदक्षि- णीकृत्य। द्वारभुवम् । राजगृहद्वारभाग इत्यर्थ । अवतीर्ण औपवाह्यादवरूढ सन् निजान । मणिमयाना च तिलकाना च प्रतिबिम्बानिव स्थितान् दीपाङ्कुरान् कनकपात्राणा मध्ये वहन्तीभि वारसीमन्तिनीभि वेश्याभि विरचित आराजिकमङ्गल नीराजनशुभकर यस्य तथोक्त सन् । पाण्डसूनु निबिडाना सान्द्राणा वितानेषु उल्लोचेषु माल्याना धूपाना गृहसस्कारधूपाना च परिमलै सुरभिले सुगन्धिनि मण्डपे आस्थाने कुरूणा राज्ञा कुले क्रमात् पित्रनन्तर पुत्र इति रूपात् आगत प्राप्त सर्वतोभद्र नाम सिंहासन अध्यवात्सीत् आरूढवान् । उत्प्रेक्षितोपमाससृष्टि ॥


  1. ‘पुर’ इति नास्ति कचित्
  2. ‘फलक’ इति नास्ति क्कचित्
  3. ‘मङ्गळवाद्य' इति पाठ
  4. ‘पुरीम्' इति पाठ
  5. ‘बिम्बानीव दीपाडुराणि’ इति पाठ
  6. ‘आर्तिक्य’ इति पाठ
  7. ‘सुरमिते’ इति पाठ .
  8. ‘क्रमादागत’ इति पाठ .