पृष्ठम्:चम्पूभारतम्.pdf/४५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
चम्पूभारते



 सौध कदाचिदधिरुह्य सम सुहृद्भि-
  र्भूपश्चिराद्विरहितस्य पुरस्य तस्य ।
 वापीषु वीथिषु वनीषु चतुष्पथेषु
  नृयालयेषु च निमज्जयति स्म दृष्टिम् ॥ २८ ॥

तदानी खलु ।

क्षोणी कोशगृहाणि गोधनतति घोटान्रथान्फुजरा-
 नन्या सपदमप्यदात्पणमिषादस्मकमीशाय य ।
ता[१]दृक्ष शकुने करो विजयतामित्यालपन्ती शुकी-
 रुद्याने स निशम्य धर्मतनयो मन्द जहासानुजै ॥ २९ ॥
कु[२]न्त्या पाण्डोस्तनूज सुतशतविरहादन्तरत्यन्तमार्त
 भक्त्तया साक पितृव्य प्रतिदिनमनुजैरग्रत स्थापयित्वा ।
कृत्वाधस्तात्कुशाग्र विजितमिव धिया प्राञ्जलि सर्वधर्मा-
 न्भीष्माद्वर्णाश्रमाणामविकलमक्षृणोत्स्खास्पद गन्तुमिच्छो ॥३०॥


 सोधमिति । कदाचित् भूप युधिष्ठिर सौघ राजगृहचन्द्रशाला सुहृद्भि सम अधिरुह्य चिरात् विरहितस्य आत्मना वियुक्तस्य तस्य पुरस्य हास्तिनस्य सबन्धिनीषु वापाषु दीर्घिकासु वीथिषु वनीषु उद्यानेषु चतुष्पथेषु क्षृङ्गाटकेषु नृत्यालयेषु नाट्यशालासु च दृष्टिं निमज्जयति स्म प्रसारितवान् । वसन्तति लक ॥ २८ ॥

 तदानी खलु वीक्षणसमय एवेत्युत्तरेणान्वय ॥

 क्षोणीमिति । य शकुनिकर घतशौण्ड अस्माक ईशाय दुर्योधनाय पणस्थ घूतग्लहस्य मिषात् क्षोणी चतु समुद्रवलयिताम् । धर्मराजस्येति शेष । कोशगृहाणि धनगेहानि गवामेव धनाना ततिं समूह धोटान् अश्वान् रथान् कुजरान् गजान् अन्या उक्त्तातिरिक्ता सपद रत्नम्बरादिकामपि अदात् दत्त वान्। तादृक्ष उक्तप्रभाव तादृश शकुने कर विजयता सर्वोत्कर्षेण वर्तता इत्युक्तप्रकार उद्याने आलपन्ती शुकी कीराङ्गना निशम्य श्रुत्वा अथ धर्मतनय अनुजै सम मन्द जहास हसितवान् । घूतेनाप्यस्याहो धन्यमन्यता धिगेन कुलावममिति हासप्रकार । शार्दूलविक्रीडितम् ॥ २९ ॥

 कुन्त्येति । पाण्डोस्तनूज धर्मराज दिने दिने प्रतिदिन कु त्या अनुजै भीमादिभि साक भक्त्या सुताना शतेन विरहाद्धेतो अन्त मनसि अत्यन्त आर्त खिन पितृव्य धृतराष्ट्र अप्रत स्थापयित्वा सर्वेषु कार्येषु पुरस्कृत्य ।


  1. अथ' इति पाठ
  2. ‘कृत्यज्ञ पाण्डवोऽसौ' इति पाठ