पृष्ठम्:चम्पूभारतम्.pdf/४५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५३
द्वादश स्तबक ।

आ लङ्कायास्तदनु सहजैरा हिमाद्रेर्जितश्री
 शौरेर्दोष्णा घटितनिजदोर्घर्मभूर्वेदिपाक्ष्वे ।
साहस्त्रीणा शतमखदृशामा[१]दधानोऽभ्यसूया-
 मन्यादृक्ष नियमपरधीराजहाराश्वमेधम् ॥ ३१ ॥
राज्ञा मौलिपरम्परा चरणयो पाणौ प्रदानश्रिय
 बुद्धौ राजनयोदय हृदि कृपा सत्य च जिह्वाञ्चले ।


धिया सूक्ष्मबुद्ध्या विजितमिव स्थितमित्युत्प्रेक्षा । कुशाग्र कुशास्तरण अधस्तात् कृत्वा तत्रोपविश्य अध कृत्य चेत्यर्थ । प्रबद्ध अञ्जलि येन तथोक्त सन् । स्खस्य वसूनामन्यतमस्य आस्पदं स्थान गन्तुमिच्छो भीष्मात् वर्णाना ब्राह्मणा दीना आश्रमाणा ब्रह्मचर्यादीना च सुबन्धिनः सर्वान् धर्मान् आचारिकान् । अविकल समग्र यथातथा अश्रुणोत् श्रुतवान् । अत्र अक्षृणोदिति स्रग्धरावृत्ते ‘म्रभ्रैर्याना श्रयेण त्रिमुनियतियुता स्रग्धरा कीतितेयम्’ इति लक्षणके क्ष्रु(?) इति सयुक्तपरमकारस्य गुरुतया नगणस्य भङ्गो नाशङ्कनीय । श्रुकारस्योच्चारणविशेषेण (?) लघुत्वाक्षते । तदुक्त छन्द प्रकाशे-–‘यदा तीव्रप्रयत्नेन सयोगादेरगौरवंम् । न छन्दोभङ्ग इत्याहुस्तददोषाय सूरय ॥’ इति । उदाहरन्ति च ‘प्राप्तनाभिहृदमज्जनमासा’ इति स्वागतादौ माघादय इति ॥ ३० ॥

 आ लङ्काया इति । तदनु सहजै भीमादिभि आ लङ्काया "लङ्कमारभ्य आ हिमाद्रे हिमशैलपर्यन्तम् । जिता वशीकृता श्री राज्यलक्ष्मी यस्य तथोक्त । शौरे श्रीकृष्णस्य दोष्णा हस्तेन सह घटित निज दो हस्त यस्य तथोक्त धर्मभू युधिष्ठिर नियमे अश्वमेधदीक्षाया परा आसक्त्ता धी मनो यस्य तथोक्त्त सन्। अतएव वेदे यज्ञीयाया पार्क्ष्वे दक्षिणे । स्थित इति शेष । अन्यादृक्ष असदृशम् । अतएव अश्वमेध नाम त्र्कतु साहस्त्रीणा सहस्रसख्याकाना शतमखस्यदृश इन्द्रनेत्राणा अभ्यसूया ईर्ष्याविशेष आदधान कुर्वाण सन् । आजहार सपादितवान् । ‘परवृद्धिमत्सरि मनो हि मानिनाम्’ इति न्यायादिति भाव । अत्र नियमासक्तेर्विशेषणगत्या अश्वमेधाहरणहेतुत्वाकाव्यलिङ्गभेद । मन्दात्र्कान्ता ॥ ३१ ॥

 राज्ञामिति । असौ धर्मतनूभव धर्मराज चरणयो राज्ञा नानादेश्याना मौलीना फिरीटाना परम्परा पङ्क्त्तिं कुर्वन्सन् । इति सर्वत्र प्रोज्यम् । पाणौ प्रकर्षेण दानस्य श्रिय लक्ष्मीम् , बुद्धौ राजनयस्य राजनीते उदय सार्वदिक (?) स्फुरणम् , हृदि कृपा मनसि भूतदयाम्, जिह्वाञ्चले रसनाग्रे । वाचीति यावत् । सत्यम् , बाहौ सागरमेखला चतु समुद्रवलयिता वसुमतीम्, भूमिं मस्ते शिरसि किरीट च कुर्वन्सन् । मुदा सतोषेण वात्सल्यातिशयेन वा । प्रजा चिरं


  1. ‘सदधानो” इति पाठ