पृष्ठम्:चम्पूभारतम्.pdf/४५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५५
द्वादश स्तबक ।



             दिगन्तरलुठत्कीर्तिरनन्तकविकुजर ।
             प्राणैस्तुल्य सरस्वत्या प्राणैषीच्चम्पुभारतम् ॥१॥
             उन्मीलदम्बुजकदम्बकसौरभीणा-
                मुन्नृत्यदीशमुकुटीतटिनीसखीनाम् ।
              आचान्तवैरियशसाममृतोर्मिलाना
               वाचामनन्तसुकवेर्वसु[१]घैव मूल्यम् ॥२॥

इति चम्पुभारकाव्य समाप्तम् ॥


 दिगन्तरेति । दिशा दशाना अन्तरे लुठन्ती लसन्ती कीर्ति साहित्यकवित्वनैयत्यविसृत्वरफरयातिर्यस्य तयोक्त । अनन्तो नाम कविकुजर कविक्ष्रेष्ट । स्युरुत्तरपदे व्याघ्रपुगवर्षभकुजरा सिंहशार्दूलनागाद्या पुसि क्ष्रेष्टार्यगोचरा ॥ इत्यमर ।सरस्वत्या वाग्देव्या प्राणैस्तुल्य निजवैभवसुभगभावुकत्वेन प्राणे म्योऽपि प्रियतम चम्पुमय गघपघात्मक भारत भरतवश्यमहाराजचारित्रप्रख्या पकप्रबन्ध प्राणैषीत् रचितवान् । प्रपूर्वान्नयते कर्त॔रि लुड् ॥१॥

 उन्मीलदिती । उन्मीलत् अम्बुजकदम्बकस्य पद्मधृन्दस्येव सौरभ यासा तासाम् । तद्वदत्यानन्दकराणमिति यावत् । उन्नृत्यत उचैस्ताण्डव कुर्वत ईशस्य शभो मुकुट्या किरिटे तटिन्या गङ्गाया सखीनाम । जङ्घालतोद्वेलतानैर्मल्यादिना द्दशीनामित्यर्य् । आचान्तानि चुलुकितानि वैरिणा पण्डितमन्याना यशासि तत्तुल्यसामाजिकसभाजनजन्यप्रख्यातय याभिस्ताया अमृतस्येव उर्मय प्रवृद्धय आसु सन्तीति अमृतोर्मिलाना अनन्तस्य नाम सुकवे कविराजस्य वाचा चम्पुभारतमयीना मूल्य क्रयणार्हद्रव्यम् । तुलारोपणार्हमितियावत् । वसूनि धनानि असख्येयानि गर्भे दधातीति वसुधा ताहशी भुरेव भवति । नान्येत्यर्य । अत्र उन्मीलदित्यादिविशेषणद्वये धृत्त्यनुप्रासोपमयो एकवाचकानुप्रवेशसकरौ आचा न्तेत्यादिविशेषणे पाननिरसनयोरभेदातिशयोक्तया वैरियशसा क्षीरत्वेन वाचा हसित्वेन रुपणप्रतीत्या अलकारेणालकारध्वनि । अमृतेति विशेषणे उपमालकार इत्येषा तिलतण्डुलन्यायेन स्फुटावगम्यभेदकत्वात्ससृष्टयलकार ॥१॥

इति क्षीसदाशिवपदारविन्दवन्दवनकन्द्लितानन्दसान्द्रस्य कुर विकुलचन्द्रस्य

रामकवीन्द्र्य्स कृतौ चम्पूभारतव्यारयाने लास्याख्याने

द्वादशस्तबकविवरण समाप्तम् ।


  1. 'वसुधाप्यमूम्यम्'इति पाठ