पृष्ठम्:चम्पूभारतम्.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
चम्पूभारते


पञ्चतामपि परा वनजयप्रापणेन जतुधाम्नि मेनिरे ॥ २० ॥ शिशमयिषुरपि द्विषा स मन्त्री निभृतशरारुरिमान्निगूढभावान् । अवसरमनलावृते निकेते प्रतिदिनमेधयितु प्रतीक्ष[१] ते स्म ॥ २१ ॥ जातुचिदपत्यै सह पञ्चभिर्भृत्यभावमिषामीषामामिषफलेषु विष निनीषन्त्या निषायोषित इव तस्य पुरोचनस्य निद्रायामपि द्राघिमाण दातुकामेन तत्र सद्मनि क्षणदायामाशुशुक्षणि क्षणान्निक्षिप्य जननीसोदरजननीचेतरसवेशमुखमणिमञ्चायमानभुजशिखरसीमेन भीमेन [२]तस्माद्रृहाद्विदुरकिकरकृतलिङ्गया सुरङ्गया निर्जग्मे ।


मेनिरे ताकिंतवन्त । ‘धनजयोऽर्जुने वह्नौ’, ‘स्यात्पञ्चता कालधर्म ’ इति विश्वा मरौ । रथोद्धतावृत्तम् ॥ २० ॥

शिशमयिषुरिति । निभृत प्रच्छन्न स चासौ शरारुर्धातुक इति विशे व्यत्वविवक्षया समास । द्विषा मन्त्री स पुरोचनो निगूढो दुर्विज्ञेयो भावोऽभिप्रायो येषा तान्। अप्रकाशितविदुरमृत्यभाषितानित्यर्थ । इमान्पार्थाननलेनाग्निनावृते दग्धे निकेते जतुगृहे । शम क्षय प्रापयितुमिच्छु शिशमयिषुरपि सन् । प्रतिदिन दिनेदिने एधयितु वचयितुमिति विरोघ । वह्नेरिन्धनीकर्तुमित्यविरोध । अतएव विरोधाभासालकार । अवसर समय दहनयोग्य प्रतीक्षते स्म निरीक्षितवान् । पुष्पिताग्रावृत्तम् ॥ २१ ॥

जात्विति । जातुचित्कदाचित्कदाचिद्भृत्यभवस्य परिचारकत्वस्य मिषाद्वयाजात् अमीषा पार्थानामामिषेषु भोग्येषु फलेषु रसालादिषु । आमिषेषु मासेषु फलेष्विति वा । ‘आमिष पलले क्कीबे त्रिषु स्याद्भोग्यवस्तुनि” इति विश्व । विष गरल नेतु प्रापयितुमिच्छन्त्या निनीषन्त्या निषादयोषितो दुर्योधनप्रेषिताया किराया इवापत्यैस्तत्पुत्रै पञ्चभि सह तस्य निभृतशरारो पुरोचनस्य मियामपि द्राधिमाण दीर्घत्वम् । दीघनिद्रासज्ञ मरणमिति यावत् । दातु कामो यस्य तेन, जनन्या कुन्त्या सोदरजनस्य युधिष्ठिरादेश्च नीचेतरमनल्प सवेशमुख xxxxxxxxxशो मणिमयो मञ्च इवाचरन्ती भणिमञ्चयमाना भुजशिखरयो सीमा प्रादेझो यस्य तेन । नीचेतर सवेशसुखहेतुरिति वा व्याख्येयम् । सुखहेतौ सुखे सुखम्' इति विश्व । भीमेन तत्र तस्मिन्सद्मनि जतुगृहे आशु-


  1. ‘आसिष्तेषु’ इति पाठ
  2. ‘तस्माद्रृहात् इति नास्ति कचित्,