पृष्ठम्:चम्पूभारतम्.pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
चम्पूभारते

 एकदा सायमन्तर्गृहे निरवग्रह निष्पतद्भिर्बाष्पैस्तरङ्गितोत्तमा- ङ्गमपत्यमुत्सङ्गभुवि पुरोधाय यातुधानापराधभयानुरोधेन मन्दित क्रन्दितमुत्सृजन्तीं कुन्ती समुपसृत्य विषानिदान विंप्रायताक्षीमप्राक्षीत् ।

सापि ता कृपालुतया हृदि लगद्रदा गद्र[१]दाक्षरमाचचक्षे ।
साधयेयमिति धर्मसग्रह सदधाति मिथुन परस्परम् ।
आधये परमनेकजन्मनोरावयोरजनि पापसग्रह ॥ ४० ॥


इसित हास चत्र्कु । नैते जानन्ति त्वया स हत इति साभिप्राय इसन्ति स्से- त्यर्थ । उपजाति ॥ ३९ ॥

 एकदेति । एकदा कदाचित्साय दिनान्तेऽन्तर्गृहे गृहाभ्यन्तरे निरवग्रह निष्प्रतिबन्ध निष्पतद्धि स्रवद्धि । ‘पृष्टिर्वर्ष तद्विघातेऽवग्रहावग्रहो समौ इत्यमर । बाष्पैस्तरङ्गित सिक्त्तमुत्तमाङ्ग शिरो यस्य तथोक्त्तमपत्य पुत्रमुत्सङ्गभुवि ऊरदेशे पुरोधायाग्रे कृत्वा यातुधानस्य बकस्य अपराधात्प्रतिकूलाचरणरूपाद्यद्धय तस्यानुरोध सरोधस्तेन मन्दित मन्दरव क्रन्दित रोदनमुत्सृजन्ती कुर्वन्तीम् । नि शब्द रुदन्तीमित्यर्थ । अन्यथा नगरमात्रस्येव क्षयापत्तेरिति भाव । विप्रस्य निजावासदातुरायताक्षी पत्नी समुपसृत्य सनिधिं प्राप्य कुन्ती विषादस्य दु खस्य निदान मुख्यकारणमप्राक्षीत्पप्रन्छ। पृच्छते कर्तरि लुड् ॥

 सेति । सा विप्रपन्यपि कृपाळुतया याशील्तया हृदि मनसि लगव्याप्रुवन्गदो रोग शोकात्मको यस्यास्ताम् । महान्तोऽन्यसतापात्खिद्यन्तीति भाव । ता कुन्तीं प्रति गद्रदानि दु खतरलान्यक्षराणि वचनानि यस्मिंस्तद्यथा तथाचचक्ष उवाच । दु खनिदानमिति शेष । चक्षते कर्तरि लिट् ॥

 साधयेयमिति । वर्म पित्रर्णापाक्ररणरूप सगृह्यतेऽनेति धमसग्रह पुन साधयेय सपायेयमिति हेतो मिथुन स्त्रीपुरुषौ परस्पर सदधाति सगच्छति । ‘प्रजया पितृभ्य एष वा अनृणो य पुत्री’ इति श्रुते । ‘प्रजायै गृहमेधिनाम्' इति स्मृतेश्च । महतामपत्यार्थमेव दारसग्रह इति भाव । अनेकानि जन्मानि पूर्वाणि ययोस्तयो । इति बहुतरपापसचयघोतनायेद बिशेषणम् । आवयोर्दम्प त्योस्तु पर केबलमाधये मनोव्यथार्थ पाप तत्फल दु ख संगृह्यतेऽनेनेति पापसग्रह अल्पायु पुत्रोऽजनि जात । अत्र पुत्रात्मधर्माय यतमानयोरल्पायु पुत्रात्मकपपाँघाप्तिवर्णनाद्विषमप्रभेद । यत्तु ‘धर्मस्य सप्रह सपादनमिति व्याख्यायि” इति, यत् ‘मिथुनसग्रह’ इति मृसिंहप्रापितम् , तन्न्यूनपरत्वादिदोषाक्षेपणमूलोच्छेदित्वादुपेक्ष्यम् ॥ ४० ॥


  1. ‘उत्सङ्गभुवि पत्युरपत्य' इति पाठ