पृष्ठम्:चम्पूभारतम्.pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
द्वितीय स्तबक ।


अनयोरथ दम्पत्योरक्षुहेतो शुच पदे ।
आनन्दस्यातिरेकोऽभूदादेश इव तत्क्षणम् ॥ ४६ ॥

तभिम प्रसुवा रहस्युदन्त गदितो वायुसुतो बळावलेपात् । मनसा न बक लिलेह रात्र्यामनसा धारितमन्नराशिमेव ॥ ४७ ॥

 अपरे [१] घुर्निखिलजनानन्दकरे भगवति दिनकरे[२]ऽपि मन्देहकुलमवस्कन्दितुमुदयगिरिशिखरमधिरूढे

स शकटमधिरुह्य भीमसेनो दधिकलशीकुलशीभ[३]रान्नराशिम् ।


भविष्यति बलिर्भविष्यति । तत्प्राणाना नाशने विषये बली बलवान्भविष्य तीति च । अतो भा भैषीर्न त्रस्ये । भये कर्तरि छट् । इत्युक्तप्रकारेण सा नरदेवस्य पाण्डो महिषी पत्नी कुन्ती प्रत्यक्ष्रौषीत्प्रतिज्ञामकरोत् । प्रतिपूर्वाच्छृ णोते कर्तरि लुड्। विरोधाभासक्ष्लेषयो समुष्टि ।

 अनयोरिति। अथ कुन्तीप्रतिज्ञानन्तरमनयोर्दम्पत्योर्व्राणीब्राह्मणयोरक्ष्रुहे तोर्बाष्पकारणस्य शुचो दु खस्य पदे स्थाने । मनसीति यावत् । शुच इति राहो शिर इत्यादिवदभेदे षष्ठी । तथा च ‘शुगभिन्ने पदे शब्दे’ इति च । आन न्दस्यातिरेक सतोषातिशय आदेशोऽतिथिरिव। व्याकरणशास्त्रप्रसिद्धशब्दान्तर- मिवेति च । तस्मिन्नेव क्षणे तत्क्षणमभूत् । व्याकरणेन युष्मदादिपदे आदेश विधया त्वमादिपदमिवाश्रुपद दूरीकृत्य आनन्दातिरेकपदमभूदित्यर्थ । उप मालफार ॥ ४६ ॥

 तमिति । वायुसुतस्तमिम पूर्वोक्तमुदन्त वार्ता प्रति रहसि प्रसुवो जनन्या गदित कथित सन् । बलावलेपाच्छौर्यगर्वाद्धेतो बकमसुर रात्र्या मनसा न लिलेह न स्पृष्टवान् । न गणयामासेति यावत् । कितु अनसा शकटेन धारित सभरितमन्नराशिमेव मनसा रात्र्या लिलेहास्खादितवान् । श्व पूर्णाहारो मम भवेदिति सर्वामपि रजनीं ध्यायन्नतिष्ठदित्यर्थ । लिहे कर्तरि लिट् । औप- च्छन्दसिकम् ॥ ४७ ॥

 अपरेघुरिति । अपरेघु परस्मिन्दिने निखिलजनानामानन्दकरे । दृष्टि रोधितिमिरवारणादिति भाव । ‘अखिलजननयनानन्दकरे इति क्कचित्पाठ । भगवति दिनकरे सूर्येऽपि । इत्यपिना भीमस्य बकावस्कन्दन समुच्चीयते । मन्देहाना नाम राक्षसाना कुलम् । ‘बृन्दम्’ इति वा पाठ । अवस्कन्दितु नाशयितुम् । उदयगिरे शिखरमधिरूढे प्राप्ते सतीत्युत्तरेणान्वय । मन्देहा नाम राक्षसा सध्यासु सूर्ये क्षण निरुध्य नश्यन्तीति श्रुतिसिद्धम् ।

 स इति । स भीमसेनो दधिकलशीना दधिकुम्भाना कुल वृन्द । अश्वते


  1. ‘अखिल' इति पाठ
  2. ‘अपि’ इति नास्ति कचित्
  3. शेखरान्न’ ‘पीवरान्न’ शीफरान्न’ इति च पाठ