पृष्ठम्:चम्पूभारतम्.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
चम्पूभारते


बकभवनवन विवेश शाखनगरमिवान्तकवीरराजधान्या ॥ ४८ ॥

कङ्कालोच्चयकल्पितान्तकचमूशाटीकुटीविभ्रमे
 तत्र क्रुद्धतदौपवाह्यमहिषश्वासोग्रचक्रानिले ।
गृध्रध्वाङ्क्षगालघोषविकसद्रक्षोपदानस्तवे
 भुञ्जान शकटस्थ एव स तदा चक्रे मह[१] त्क्ष्वेलितम् ॥ ४९॥

सोऽपि तदिद निशम्य बलिपुरुषविशेष[२]मन्दितशकटागमेन प्रथम- मेव कृतोन्मेष रोष द्विगुणयन्गिरिकदमन्दिरमुखात्सरभस विनिर्गत्य

एव को वापराध्नोत्यमुमविगणयन्बाहुमत्रेति घुष्य-
 न्व्यक्तोरोरक्तरेखाकृतबिरुदजगद्धातुकत्वप्रशस्ति


व्याप्नोतीति व्युत्पत्तौ शकन्ध्वादित्वात् पररूपे पिप्पल्यादित्वात डीषि च। कुलशी पङ्क्त्ति ता बिभर्तीति भर तादृशोऽन्नस्य राशिर्यस्मिस्तथोक्तम् । ‘दधिकलशी कुलपीवरान्नरशिम् इति पाठस्तु सुगम । शकटमधिरह्यान्तकवीरस्य यमस्य या राजधानी सयमनी तस्या शाखानगर उपपट्टणमिव स्थितम् । ‘यन्मूल नगरात्पुरम् । तच्छाखानगरम्' इत्यमर बकस्य भवन यस्मिस्तद्वनं विवेश । उत्प्रेक्षा । पुष्पिताग्रा ॥ ४८ ॥

 कङ्कलेति । कङ्कालाना शरीरशल्यानामुच्चयेन समूहेन कल्पितोऽन्तक चम्बा यमसेनाया शाटीकुटीविभ्रम पटगृहविलासो यस्मिस्तथोक्त्ते । ’स्याच्छ रीरास्थि कङ्काल ' इत्यमर । क्रुद्धस्य कुपितस्य तदौपवाह्यस्य यमवाहनस्य महि षस्य श्वासा इव उग्ना दारुणाश्चकानिला आवर्तवायवो यस्मिस्तथोक्त्ते गृध्रध्वा क्षाणा कङ्काकाना शृगालना शिवाना च घोषैर्घोरघ्वनिभिर्विकसन्वर्धमानो रक्षसो बकस्यापदानानि प्राणिहिसात्मककर्माणि तत्सबन्घिन स्तवो यस्मिंस्तथोक्त्ते । तादृग्ध्वनिव्याजतद्विरुदस्तुतिरवमुखरित इत्यर्थ । तत्र बकवने शकटस्थ सन्नेव भुञ्जानोऽन्नराशिं भक्षयन्स भीमो महद्वकहृदयभेदन क्ष्वेलित सिंहनाद चक्रे । अत्र बलिभक्षणक्ष्वेलिताभ्या भीमस्य तृणीकृतबकबलावलेपप्रतीतेर्वस्तुना वस्तु ध्वनि । शार्दूलविक्रीडित श्रुत्तम् ॥ ४९ ॥

 स इति । स बकोऽपि तदिद भीमसिहनाद निशम्य श्रुत्वा बलिनान्नेन बळवलेति च पुरुषविशेषेण महापुरुषेण भीमेन च द्वाभ्या मन्दितेन विलम्बितेन शकटस्यागमेनागमनहेतुना प्रथम सिंहनादश्रवणात्पूर्वमेव कृत उन्मेष उत्पत्ति र्यस्य त रोष क्त्रोध द्विगुणयन्पुनरुक्तयन्सन् । गिरे कदर गुहा सैव मन्दिर तस्य मुखाद्वारात्सरभस सवेग यथा तथा विनिर्गत्य बहिरागत्येत्युतरेणान्वय

 एवमिति व्यक्त्तभि स्फुटाभिरुरसि रक्तरेखाभी रुधिरलेपधाराभि


  1. ‘क्ष्वेडितम् इति पाठ
  2. ‘भारमन्दित’ इति पाठ