पृष्ठम्:चम्पूभारतम्.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
द्वितीय स्तबक ।

भोक्तुमन्नमपि सूपसमग्र दोग्धुमप्यभिनवप्रसवा गा ।
लप्स्यते द्विजगणोऽपि च तस्माद्वसलाहुहितुरुत्सवकाले ॥ ५८ ॥
न हि तत्र भवेदपार्थता विजय सिद्धिमुपैष्यति स्फुटम् ।
युगपत्सुखमस्तु वो महद्भुतमागच्छत तन्महौजस ’ ॥ ५९ ॥
इति वाचमुपश्रुति द्विजातेर्ह्रदि कृत्वा सुधयेत्र निर्मिता ताम्।
पथि भूसुर[१] सघमध्यभाज प्रति पाञ्चालपुर प्रतस्थिरे ते ॥ ६० ॥
ते पुनर[२]र्प्यनेकदिननीतजनपदवनसीमान पथि कृतोदयेन भग-


लिका पुत्रिका स्याद्वनदन्तादिभि कृता’ इत्यमर । ममेय भवेदिति हृदि कृत्वा। मनसि निश्चित्येत्यथ । स्वयंवर इति महानुत्सवस्तस्मै दूतैराह्वानार्थमागतैद्रौपदे सम दुपदभूपतिराज बानी प्रयान्ति । इपदपुरमित्यथ । अत्र सौधरत्नपाञ्चालि केति परम्परितकेवलरूपकम् । वसन्ततिलका ॥ ५७ ॥

 तर्हि राजान प्रयान्तु। किमसाक ब्राह्मणाना तत्रेत्त्यत आह--भोक्तुमिति। द्विजाना गणोऽपि भोक्तु सूपेन समश्र सपूर्णमनमपि । दोग्धुमभिनवो नूतन प्रसव प्रसूतिर्यासा ता गा अपि । दुहितु सुताया द्रौपद्य उत्सवकाले खय वरोत्सवसमये वत्सलाडुहितृप्रेमवतस्तस्मादु पदारुप्यते प्राप्स्यते । खागता वृत्तम् ॥ ५८ ॥

 न हीति । किंच तत्र द्रौपदीस्वयवरोत्सवे । हि यस्मात् । अपार्थता व्यर्थत्व न भवेत् । पार्थोऽर्जुनो न भवतीत्यपार्थस्तस्य भावस्तत्ता अर्जुनभेदो न भवेदिति च । तत कारणात् विजय । गमनमित्यर्थ । ‘उपसर्गेण था- त्वर्थो बलादन्यत्र नीयते’ इत्यनुशासनादिति भाव । सिद्धि साफल्यमुपै- ध्यति लप्स्यते । विजयोऽर्जुन सिद्धि द्रौपदीलाभरूपामुपैष्यति स्फुट नून मिति च । दघिवृतसूपसमृद्धान्नराशिलाभान्मत्स्यभेदनद्वारा द्रौपदीलाभावेयुः भयत्र भात्र । हे महौजस उत्कृष्टतेज शालिन , वो युष्माक महत्सुख युग पदेकदैव साहित्येनेति च । अस्तु । तत्तस्साठत सत्वरमागच्छत । वैता लीयवृत्तम् ॥ ५९ ॥

 हतीति । इत्युकप्रकारामुपश्रुतिं व्यजनया भाव्यथसूचनीम् । अर्जुनद्वारा द्रौपदीलाभेन सर्वेषा सौख्यलाभव्यक्षकामिति यावत् । अतएव सुधयामृतेन निर्मितामिव स्थिता द्विजातेब्रार्ह्मणस्य ता वाच हृदि कृत्वा । अङ्गीकृत्येत्यर्थं । ते पाण्डवा पथि मार्गे भूसुरसधस्य ब्राह्मणवृन्दस्य मध्य भजन्ति प्राप्नुवन्तीति भाजसन्त पाञ्चलस्य द्रुपदस्य पुर प्रति प्रतस्थिरे । औपच्छन्दसिकम् ॥ ६० ॥

 त इति । ते पाण्डवा अपि अनेकैदिनैनीतानामतिकान्तान जनपदाना देशाना बनानामरण्याना सीमा भागा यैस्तथोक्ता सन्त । पथि मार्गमध्ये पुनरपि


  1. ‘यूथ' इति पाठ
  2. ‘अपि’ इति नास्ति कचिव