पृष्ठम्:चम्पूभारतम्.pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
चम्पूभारते


 बल्वैरिभुवस्त्याघिकण्ठ वरणे चम्पकमालिका चितेने ‌॥ ८३ ॥

 तदनु स महावीराग्रेसर समग्रगुणेशेखरिता नरपतिसुतामिव शरासनलतामुदूह्न्रज्ञा बलमवज्ञाय सभाङ्गणा[१] त्कक्षेणान्निक्ष्चक्राम ।

तदात्व एव खलु खलोऽयमखिलानस्मानतिस्मयेन विस्मरन्कस्मैचिहुहितर विप्राय प्रायच्छदिति द्रुत द्रुपदाय द्रोहमुन्निद्रयत कतिचन राजन्याञ्जन्यामिमुखान्प्रति सुलभोन्मेषेण रोषेण स[२]रभस भु-


वारिभि पत्युरलभशोकेन जातै सृष्टान्युत्पन्नानि यानि त्रिपथाया गङ्गाया हेमपयोजानि क्नक्कमलानि तैर्गुमिफता सघटितेव स्तिथा चम्प्काना चाम्पेय कुसुमाया मालिका बलषैरिभुव अजुनस्य क्ण्ठेऽघिकण्ठम् । 'विभत्स्य थेर्र्ऽव्ययीभाव' । वरणे पतित्येन स्वीकरणनिमित्तम् । 'निमितात्कर्मयोगे' इति सप्तमी'। वितेने निक्षित्पा । तनोते कर्मणि लिट् । पुरा जन्मनि किलेय नालायनीसमाख्या पत्यर्थ तपस्यन्ती तृष्टेन महादेवेन चोदिता देवेन्द्राहा नाय गङ्र्गातट प्राप्य तदागमने विलम्बाद्रुरोद । तद्वाष्पैर्गङगाया हेमतामरसान्यभूवन्-इति भारति कथात्रानुसघेया । यद्यपि वरणमालायाक्ष्चम्पकत्वेन कटा क्षाणां भावितदपेक्षाहेतुकमधुकरत्वोत्प्रेक्षा पूर्वक्ष्लोकोक्ता विस्द्दध्यते चम्प काना मधुकरमारकत्वेन प्रसिद्धे , तयापि तदाना तदभावेन पुष्पमाला त्वेन तदवतरणस्य पूर्व मधुकराणामाशाजनने बाधकाभावान्न क्षतिरिति कवेराकूतमिति ध्येयम् ॥ ८३ ॥

 तदन्विति । तगदनु वरणान्तर महावीराणामग्रेसर प्रथम सोऽर्जुन समग्रै सकलैर्गुणै सौन्दर्यादिमिरखण्डशि जिञ्न्या च शेस्सरिती भूषिताम् । सम्य गग्रयो कोटयो गुणेन शेखरितामित्यप्यन्यत्र योज्यम् । नरपतिसुता द्रौपदी भिव शरासन धनुर्लतेव तामुद्र्हन्विभ्रत् , विवहत्रिति च । राज्ञा बल शौर्यम , चतुहज्ज वा । अवग्याय तिरस्क्र्त्य क्षणात्क्षेणेन समाया खयवरमण्डपस्याऊणान्नि क्षक्राम निर्गतवान् । अत्र महावीराग्रेसरत्वस्य विशेषणगत्या राजबलानादर प्रति हेतुत्वात्पदातर्थहेतुक काव्यलिङ्गम् ॥

 तदात्व इति । तदात्व एव निर्गमनकाल एव । 'तत्कालस्तु तदाव स्थात्' इत्यमर । खलु इति वाक्यालकारे । खलो दुर्जनोऽय द्रुपदोऽखिलानस्मानतिस्म बेनातिगर्वेण विस्मरन्नगणयन्सन् । कस्मॅचिविञातकुलशीलनामधेयायेत्यर्थ । विप्राय । द्विजव्याजायेत्यर्थ । तेन द्विजत्व वा तस्य को जानीत इति भाव । दुहितर पुत्री प्रायच्छइत्वान् । इति हेतो दुत दुपदाय द्रोहमुन्निरद्रयत प्रकटीकुर्वत । अतएव जन्याय युद्धायामिमुखानुमुत्कान् । 'युद्धमायोधन जन्यम्' इत्वमर । कतिचन राजन्यान्राज्ञ् प्रति सुलभ उन्मेष उत्पतिर्यस्व तेन रोषेण स्वीयमेते खला निरुन्धन्तीति क्रोधेन सरभस सवेग भुजादुन्नीतैरूर्ध्व


  1. क्षणास्' इति नास्ति कचित्
  2. 'सरमस' इति पाठ