पृष्ठम्:चम्पूभारतम्.pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
चम्पूभारते

एव विचिन्त्येव भयेन पादे लाक्षाकृत धाम पपात तन्व्या ॥९५॥
 तस्या सखीषु सकलास्वापि तत्तदङ्ग
  वेगाद्विभूषितवतीषु विवाहवेषे ।
 का[१] लक्षपासहनवृध्द्पुरोहिताना
  कोप्स्य पात्रमभवत्कुचशिल्पकर्त्री ॥ ९६

 एवमलकृतामेनामा[२]लोक्य स्वयमपि सध्यारुणिमसपादितळाक्षा कृत्यामजनातिलकर[३]जितमुखभागा परिणेतुमिव प्रतीची दिशभु पगतवति भगवति भासानिधौ


भाविषु भविष्यत्सु वक्तभेषु पतिषु पाण्डवेषु विषय आतड्रेन कदाचिदत्र वय दग्धा भवेमेति शङ्कया पीडा दु खमददामकरवम्। ददाते कर्तरि लिट् । रूक्तापशङ्कास्त्रातङ्क' इत्यमर एवमुक्तप्रकार विचिन्त्य स्मृत्वा भयेनैव तदा द्रापैद्या अलकरणसमये लाक्षाया अलक्तकेन कृत धाम तेज एव गृहमिति श्लिष्ट रूपकम् । “धाम स्याङ्हतेजसो' इति विश्व तन्व्या द्रौपधा पादे पपात । प्रणनामेयर्थ ‘अस्या दुत भाविषु' इति पाठे द्रुत शीघ्र पपातेति सबन्ध । रूपकानुप्राणितेयमुत्प्रेक्षा । इन्द्रवज्ञा ॥ ९५ ॥

 तस्या इति । सकलासु सखीषु तस्या द्रौपद्यास्तत्तचिकुरादि अङ्ग विवाहवेषै परिणयोचिततत्तदलकारैर्वेगाड्डत विभूषितवतीषु सतीषु कुवयो शिल्पकर्त्री अलकारिणी कालक्षपासहनाना विवाहलश्नातिक्रमणभिया कालविलम्बमसहमानाना ज्ञानेन वयसा च वृद्धाना पुरोहिताना धौम्यादीना कोपस्य क्रोबस्य आत्रमभवत् । सपदि तत्तादृकुचालकारकृतविलम्बस्य विशेषणगल्या पुरोहितकोपहेतुभूतत्वात्पदार्थहेतुक काव्यलिङ्गम् । तादृशविलम्थासबन्धेऽपि संबन्धोक्तिरूपातिशयोक्त्युज्जीवितमिति तयोरङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥ ९६॥

 एवमिति । एवमुक्तप्रकारेणालकृतामेना द्रौपदीमालोक्येच स्वयमात्मनापि सध्याया अरणिमा साध्यास्णवर्ण एव सपादितलाक्षाकृत्य यावकालकरण विरचित यस्यास्तथोक्ताम् । अञ्जनस्तिलश्च वृक्षविशेषो तावेवाञ्जन कज्जलतिलक इति श्लिष्टरूपकम् । ताभ्या रजिताचलकृतौ सुखस्याग्रस्येव वदनस्य भागौ नेत्रललाटदेशौ यस्यास्तथोक्ता प्रतीचीं दिश परिणेतुमुद्वोढमिव भवति भासा तेजसा निधौ स्थाने सूर्यं उपगतवति प्राप्ते सतीत्युत्तरेणान्वय । तामालोक्येव भासानिवौ स्खयमपि तादृशी प्रतीची परिणेतुमिवोपगतवति इति वा योजना । अत्र रूपकद्वयोज्जीवितपरिणयोत्प्रेक्षाया द्रौपयालोकनमेक्षासापेक्षत्वाद्वयोरङ्गाङ्गिभावेन सकर ॥


  1. ‘कार क्षिपा इति पाठ
  2. ‘अवलोक्य्' इति पाठ
  3. ‘मजुलमुख भासाम्’ इति पाठ