पृष्ठम्:चम्पूभारतम्.pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
द्वितीय स्तबक ।

 एवमन्तरिक्षनिक्षिप्तलक्ष्यवे[१] धनलक्षणेन शुल्कनिष्केण निजकण्ठनिष्कायितकन्याभुजलतानेतान्पथि कौन्तेयानवगन्तारो दुरहतारोपितनिवर्तनमतयो विकर्तनतनयोपायविधेयै सहायै सह समन्त्रय समारब्धपूर्वस्य युद्धपलायनाध्ययनस्य द्वितीयावृत्विविच्छित्ति परिजिहीर्षमाणा [२] इव शकुनिभागिनेया सेनापुर सरनिसाणनि सारितनि स्वानला[३]लितै [४]क्ष्वेलितै क्षालितगवाक्षमौनक[५] क्ष्य द्रुपद[६]पुर पुनरपि नि[७]रुद्ध्य निरुच्छूसयाचहुकु ।


पाठान्तर तु स ताविवेति पदनयार्थान्वयस्यासगतवादिदोषादुपेक्ष्यम् । इन्द्रवज्त्रावृत्तम् ॥ १०५ ॥

 एवमिति । एवमुक्तप्रकारेणान्तरिक्ष आकाशे निक्षिप्तस्य वेण्वाधूध्र्वदण्डे बद्धस्य लक्ष्यस्य वेधनलक्षणेन भेदनात्मकेन शुल्केन कन्याया आवर्जनार्थं पारेिदेयेन निष्केण दीनारेणेति जात्येकवचनम् । निजेषु कण्ठेषु निष्कायिता भूषणविशेषणव दाचरन्ती कन्याया द्रौपद्या भुजलता येषा तान् । तादृशशुल्कलब्धद्रौपदीभुजालिङ्गि तानित्यर्थे । ‘साष्टे शते सुवर्णाना हेम्त्र्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री’ इत्यमर । एतान्द्रौपदीपरिणेतृन्कौन्तेयानवगन्तार । पार्था इति जानन्त इत्यर्थ । एतान्कौन्तेयानवगन्तारोऽवज्ञातार । तिरस्कर्तार इति यावदिति वा । अतएव पथि मार्गामध्ये । दुरहतया दुरहकारेणारोपिता प्रापिता निवर्तने पाण्डवेभ्यो द्रौपद्य अपहरणे पाण्डवाना द्रौपदीविवाहपलायने वा विषये मतिर्निक्ष्चयो येषा ते । शकुनेर्भगिनी गान्धारी तत्पुत्रा भागिनेया दुर्योधनादय । भागिने याना मातुलानुकारिणी प्रकृतिरिति प्रसिध्द्य शकुनिवहुर्मतिवद्योतनाय तेषा तथा निर्देश । विकर्तन सूर्यस्तत्तनयस्य कर्णस्योपायेषु कार्यालोचनेषु विधेये स्थितै । ‘विकर्तनार्कमार्तण्ड-’, ‘विधेयो विनयग्राही वचनेस्थित आश्रव’ इत्युभय त्राप्यमर । सहायैर्दु शासनादिभि समय सम्यगालोच्य । पूर्वं द्रुपदाय द्रोइकाले समारब्धस्य सम्यगुपक्रान्तस्य समारब्धपूर्वस्य । तदा नानादेशीयै सहै षामपि पलायितत्वादिति भाव । युद्धे पलायनस्यैवाध्ययनस्य वेदस्य द्वितीया या आवृत्तेरभ्यासस्य विच्छित्त्तिं विच्छेद परिजिहीर्षंमाणा परिहर्तुमिच्छन्त इवेत्यु त्प्रेक्षा। परिपूर्वोद्धरते सन्नन्ताल्लट शानच् । सेनाया पुर सरादप्रवर्तिनो नि साणा जयदुन्दुभेर्नेि सारितै प्रवर्तितैर्नेि खानैर्भाङ्कारैर्लालितैमिंश्रितै क्ष्वेलितै सिंहनादै क्षालित निरस्त गवाक्षाणा मौनमेव कक्ष्य मालिन्य यस्य तत् । प्रतिध्वनितगवाक्षमि त्यर्थ । ‘काक्ष्यम्’ इति पाठे कक्ष्यैव काक्ष्यम् । व्रतमित्यर्थं । ‘मौनरौक्ष्यम्’ इति


  1. ‘वेध’ इति पाठ
  2. ‘इव ते’ इति पाठ
  3. ‘ललितै ’ इति पाठ
  4. क्ष्वे ङितै ’ इति पाठ
  5. ’रौक्ष्यम् इति पाठ
  6. ‘नगर' इति पाठ
  7. ‘निर्वाय',‘निवार्य’ इति पाठ