पृष्ठम्:चम्पूभारतम्.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
चम्पूभारते

शेन लम्भितत[१]न्नामोपपदमिन्द्र[२]प्रस्थ[३] मघिष्ठिताय युधिष्ठिराय निवे[४]द्य
स्वपुरेSपिसुषमामीध्शीं परीक्षितुमिव स्यन्दनेन यदुनन्दनेन प्रयये ।
 प्राणायमानमहिलानथ पाण्डुपुत्रा-
  न्क्षोणाविमाननुजिघृक्षुरु[५]दारभूमा ।
 एणाजिनेन घटितोद्रमनीयकृत्यो
  वीणाविनो[६]दरसिको मुनिराविरासीत् ॥ २ ॥
तपोनिघेरागमनेन सद्य सभा विभो स्तब्धजनारवापि ।
वीणारवानुद्रुतभृङ्गमालाकोलाहलैर्घोषितदिझुखाभूत् ॥ ३ ॥


युधिष्ठिराय निवेद्य स्वपुरं गच्छामीति विज्ञाप्य । स्वस्य पुरे द्वारकायामपीद्यशीमिन्द्रप्रस्थसद्यशी सुषमा कान्तिविशेष परिक्षितुमिवेत्युत्प्रेक्षा । यदुनन्दनेन श्रीकृष्णेन स्यन्दनेन रथेन प्रयये प्रस्थितम् । रथमारुह्य श्रीक्रुष्प्र प्रस्थितवानित्य र्थं । यातेर्भावे लिट् । 'स्मरणमात्रनयनपात्रेण' इति पाठान्तरम्। 'कुरुविन्द पद्यराग' इत्यमर ॥

 प्राणायमानेति । अथ कृक्ष्णगमनानन्तरमुदारो महान्भूमा प्रभावो यस्य स । 'अपारभूमा' इति पाठे अपारो निरवधिको भुमा प्रभावो यस्य तथोक्त इत्यर्थं । एणाजिनेन मृगचर्मणा घटितसमुद्रमनीयस्य धौतवस्रद्वयस्य कृत्यमुत्तरीयान्तरीयकार्य यस्य स वीणाविनोदरसिको मुनिर्नारद प्राणवदाचरतीति प्राणायमाणाव महिला येषा तान् । प्रणतुल्यद्रौपदिकानित्यर्थं । इमान्पाण्डुपुत्राननुग्रहीतुमिच्छुरनुजिव्रक्षु सन् । गृह्णाते सन्नन्तागदुप्रत्यय । क्षोणौ पाण्डवावासभूमावाविरासीत्साक्षाद्वभूव । वसन्ततिलकानृत्तम् ॥ २ ॥

 तपोनिधेरिति । विभोर्घर्मराजस्य सभा तपोनिघेर्नारदस्यागमनेन सद्य स्तब्ध्र शान्तो जनाना सभासदामारव कलकलरवो यस्या तथोक्तापि । विणाया नारदमहत्या रवास्तम्त्रीनादान्नुद्रुताथा अनुधावन्त्या भृङ्गाणा मालाया पड्रे कोलाहलैर्झङ्कारैर्धोषितानि मुखरितानि दिशा मुखानि अग्रमणा यस्यास्त्योक्ताभूत् । अत्र शान्तेSपि कोलाहले सभाया पुनस्तद्वक्त्वकथनात्पूर्वरूपालकारभेद । 'पूर्वावस्थानुवृत्तिश्र्च विकृक्ते सति वस्तुनि' इति लक्षणात् । यत्तु 'वीणारवा नुद्रवण भृङ्गाणा रवसाम्यात्साजात्यभ्रान्त्या इति नृसिंह, तदबोधात् । यतस्तेषा परिमलानुधावनमेव लोकसिध्द कविकुलक्षुण्ण च । आलापकालसमपल्लविता' इत्यस्त्र प्रन्थकारेणापि 'सौरभ्यपातिमधुपारव-' इत्युक्तम् । एव च वीणारवाननु तत्समकालमेव द्रुतानामिल्यर्थ । गानमाधुर्येण वीणाया सद्य कुसुमितत्वादिति व्याख्येयम् । अन्यथा प्रसिध्दिविरोघत्वदोषापत्तेरिति । वृत्तमुपजाति ॥ ३ ॥


  1. 'तत्रमो' इति पाठ
  2. 'इरिप्रस्थम्' इति पाठ
  3. 'अधिष्ठाय' इति पाठ
  4. 'विनिवेद्य' इति पाठ
  5. 'अपारभूमा' इति पाठ
  6. 'निनाद' इति पाठ