पृष्ठम्:चम्पूभारतम्.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
तृतीय स्तबक ।

दृष्ङ्टवा नृपो देवमुनिं विनीतो मौलिस्रजा धूलिमधूलिवृन्दै ।
सपङ्कमाधाय त[१]दडिध्रयुग्म विपङ्कमात्मानमय व्यतानीत् ॥ ४ ॥
 मेध्या बृसीमधिगतस्य [२]‘चिरिञ्चिदूनो
  रास्थाय सनिधिमुदारमुदा कुरूणाम् ।
 तस्यारदुतागमनहेतुपरिच्छिदाया
  चित्तानि दूरपथवर्तनतामवापु ॥ ५ ॥
निकुञ्चिते तेन धृता निजाङ्के विपञ्चिका मौनमवाप्य तस्थौ ।
पाञ्चालिकाबन्दनवादशैलीमाधुर्यमाकण्र्य विलज्जितेव ॥ ६ ॥
 राज्ञामुना समुचितेषु सभाजनेषु
  पात्रैश्च पाणिविधृतै प्र[३]चलैक्ष्च वेत्रै ।


 दृष्वेति । अय नृपो बर्मराजो देवमुनिं नारद दृष्टा विनीतो विनयान्वित सन् । मौलौ किरीटे । ‘मौलिर्मूर्धकिरीटयो’ इति विश्व । स्रजा पुष्पमालिकाना । सबन्धिभिर्धूलीना परागाणा मधूलीना मकरन्दाना बृन्दैस्तस्य नारद स्याङ्द्रियुग्स पादयुगळ सपङ्क पङ्केन सहितमाधाय कृत्वा । त नमस्कृत्येत्यर्थं । आत्मान विपङ्क निष्पाप व्यतानीदकरोत् । तनोते कर्तरि लुड् । ‘पङ्क कर्दम पापयो ' इति विश्व । अत्र नारदनमस्कारकरणस्य विशेषणगत्या निष्पापत्व करणहेतुत्वापदार्थहेतुक काव्यलिङ्गम् । वृत्तमुपजाति ॥ ४ ॥

 मभ्यामिति । मेध्या पवित्रा बृसी कुशादिनिमिंतासनम् । ‘व्रतिनामासन बृसी’ इत्यमर । अधिगतस्य । तत्रोपविष्टस्येत्यर्थ । विरिञ्चेर्ब्रह्मण सूनो र्नारदस्य । ‘सूनु पुत्रेऽनुजे रवौ' इति विश्व । सनिधि समीपमास्थाय प्राप्य । उदारा महती भुत् आनन्दो येषा तेषा कुरूणा युधिष्ठिरादीना चित्तानि तस्य अङते आकस्मिक्त्वादत्याश्चर्यकरे आगमने यो हेतु कारण तस्य परिच्छिं दाया निष्कर्षे विषये दूरपथे वर्तनता स्थितिमवापु । सुदीर्घालोचनपराण्यास नित्यर्थ । वसन्ततिलका ॥ ५ ॥

 निकुञ्चित इति । निकुञ्चित आकुञ्चिते निजे स्वीयेङ्के। ‘निजमात्मीयनित्ययो ’ इति विश्व । तेन नारदेन वृता निहिता ,विपश्चिता महती वीणा । पाश्चालिकाया द्रौपद्या वन्दनवाद ‘भो पाञ्चलि, अहमभिवादये' इति वचस्तस्य शीलमेव शैली आचार । उच्चारणमिति यावत् । तस्य माधुर्यमाकण्ये विशेषेण लज्जितेवेत्युत्प्रेक्षा । मौन तूष्णीभावमवाप्य तस्थौ स्थिता । अत्र वीणामैौनस्य पाञ्चाल्युक्त्तिमाघुर्याकर्णनजनितलज्जाहेतुकत्वोक्त्तेर्हेतूत्प्रेक्षा । गृत्तमुपजाति ॥ ६ ॥

 राजेति । धातृसूनुर्नारदोऽमुना राज्ञा धर्मराजेन (कर्ता) पाणिभि परिजन-


  1. ‘तमङ्द्रियुग्मे' ति पाठ
  2. 'विरथि’ इति पाठ
  3. ’चपलै’ इति पाठ