आनन्दमयकोशः तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आ-
त्माऽऽनन्दमयः । तेनैष पूर्णः।
तस्योपास्यस्वरूपम् स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।
अन्वय पुरुषविधः । तस्य प्रियमेव शिरः ।
तस्माद्वा एतस्मादित्युक्तार्थम् । 'आनन्दमयः' इति कार्यात्मप्रतीतिः-
(१) अधिकारात् ,(२)मयट्शब्दाच्च-अन्नादिमयाहि कार्यात्मानो भौतिकाइहा-
धिकृताः, तदधिकारपतितश्चायं 'आनन्दमयः; मयट्चात्र विकारार्थे दृष्टः, यथा
अन्नमयः' इत्यत्र; तस्मात्कार्यात्मा 'आनन्दमयः' प्रत्येतव्यः; (३) संक्रमणाच-
'आनन्दमयमात्मानमुपसंकामति ' इति वक्ष्यति, कार्यात्मनां च संक्रम-
णमन्नात्मनां दृष्टम्, संक्रमणकर्मत्वेन च 'आनन्दमय' आत्मा श्रूयते, यथा
'अन्नमयमात्मानमुपसंक्रामति' इति; न चाऽऽत्मन एवोपसंक्रमणम्, अधिकारविरोधात्;
असंभवाञ्च-न ह्यात्मनैवाऽऽत्मन उपसंक्रमणं संभवति, स्वात्मनि भेदाभावात्,आत्मभूतं च ब्रह्म संक्रमितुः; (४)शिरआदिकल्पनानुपपत्तेश्च- न हि यथोक्तलक्षण आकाशादिकारणेऽकार्यपतिते
शिरआद्यवयवरुपकल्पनोपपद्यते,'अदृश्येऽनाम्येऽनिरुक्तेऽनिलयने,'अस्थूलमनणु','नेति नेत्यात्मा'
इत्यादिविशेषापोहश्रुतिभ्यश्च; (५) मन्त्रोदाहरणानुपपत्तेश्व-नहि, प्रियशिरआद्यवयवविशिष्टे
प्रत्यक्षतोऽनुभूयमान आनन्दमय आत्मनि ब्रह्मणि 'नास्ति ब्रह्म'
इत्याशङ्काभावात्, “असन्नेव स भवति । असब्रह्मेति वेद चेत्" इति मन्त्रोदाह-
आनन्दमयः परमात्मा ' इति वृत्तिकारैरुक्तं, तनिषेधेन ध्याचष्टे-कार्यात्मप्रतीति- रित्यादिना । संक्रामति' इत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातमः प्राप्त्यभिप्रायं क- स्मान्न व्याख्यायत इत्यत आह-न चाऽऽत्मन एवेति । अन्नमयादीनामतिक्रमणीयतया 'प्रकृतत्वाद, एकस्य कर्तृत्वकर्मत्वासंभवाच, प्राप्तिः संक्रमणं न भवतीत्यर्थः । आनन्दमयस्य (१) 'आनन्दमयो ब्रह्म' इति न युज्यते-(१) अन्नमयादिगतविकारार्थमयटप्रायपठितेन मयटा तस्य विका- रत्वावगमात ; (२) शिरःपक्षाद्यवयवयोगात्; (३) पुच्छत्वेन निर्दिष्टाद्ब्रह्मणस्तस्य व्यतिरेकप्रतीतेः(४) अन्नमयादिपर्यायेषु प्रधानानां तत्तत्पर्यायगतश्लोकविषयत्वदर्शनेन स्वपर्यायगतश्लोकाविषयस्य तस्याप्राधान्यात् ; (५) “ तस्यैष एव शारीर आत्मा यः पूर्वस्य" इति अन्नमयादीनामिव तस्याप्यात्मान्तरश्रवणात् ; (६) " अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम् " इति शोध्यत्वश्रवणाच्च । इति न्यायरक्षा- मणौ आनन्दमयाधिकरणे । (२) तै. उ. २. ८. उप-संक्रमणं = बाधः । (३) अनात्मना-पाठः । (४) तै. उ. २.७ (५) वृ. उ. ३. ८. ८. (६) बृ. उ. ३. ९.२६ चतुःकृत्वः (७) तै. उ. २. ६.