पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८८
नैषधीयचरिते

पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र ।
निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेधिकारम ॥६॥

 पश्येति ॥ सन्ध्यया अत्र सायंसमये चन्द्रस्य नायिकाया रात्रेः सम्बन्धिनः प्रतीहारस्य दौवारिकस्य पदे अधिकारमास्पदमपि पश्य विलोकय । किम्भूतया-द्रुतं शीघ्रमस्तं गतस्य सूर्यस्य निर्यती बहिर्निर्गच्छन्ती करावली किरणपरम्परैव हैङ्गुलं हिङ्गुलाख्येन रञ्जकरक्तद्रव्यविशेषेण रक्तं वेत्रं दण्डविशेषो यस्यास्तया । किम्भूते पदे-निषिध्यमानं निवार्यमाणप्रवेशमहो दिनं यस्मिन् । स्त्रिया हि दौवारिकी ख्येव युक्तेति सन्ध्यैव रात्रेर्दौवारिकी जातेत्यर्थः । सूर्योस्तमितः, दिनं गतम्, रात्रिरागतेति सायंसन्ध्यया ज्ञाप्यत इति भावः । दौवारिक्यपि हैङ्गुलवेत्रपाणिः सती प्रविशन्तं कमपि प्रतिषेधयति । तिर्यक्करा-' इति (पाठे-) तिर्यञ्चस्तिरः प्रसारिणश्च ते कराश्चेति । अहनीत्यत्र तत्पुरुषत्वाभावाट्टजभावः॥
 इदानीं सन्ध्यानक्षत्रसंयोगं वर्णयति-

महानटः किं नु सभानुरागे संध्याय संध्यां कुनटीमपीशाम् ।
तनोति तन्वावियतापि तारश्रेणिस्रजा सांप्रतमङ्गहारम् ॥७॥

 महानट इति ॥ अङ्ग हे भैमि, महान् संध्योपासनादिविषयेऽतिप्रशस्तः, तथा-अटति गच्छतीत्येवंभूतः कालः स प्रकृतः सायन्तनः, यद्वा-महान्परमेश्वरो नटो नर्तको यस्मिन् । सन्ध्याकाले हीश्वरो नृत्यति । स प्रकृतः सायंसन्ध्यासमयः भानोः सूर्यस्य रागे लोहितिमनि सति अस्तमयानन्तरं सूर्यस्य रागमात्रेऽवशिष्टे सति सन्ध्याकान्तिं किञ्चित्पीतरक्तवर्णत्वात्कुनटीं 'नेपाली कुनटी गोला' इत्याद्यभिधानात् मनःशिलारूपाम्, तथा-ईशामपि स्वकालस्वामिनीं च, अथ च-पितृप्रसूरूपत्वाद्ब्रह्मतनुत्वाद्देवतारूपाम्, अथ च-समृद्धिमतीं सन्ध्याय सम्यग्विचिन्त्य साम्प्रतमिदानीं तन्वा किञ्चिदुद्गततया सन्ध्यारागतिरोहितकान्तितया वा कृशया किञ्चिद्दृश्यया । तथा-वियतापि गगनरूपया लक्षणया यावद्गगनं विस्तीर्णया, यद्वा-आ सामस्त्येन व्याप्तं वियद्यया गगनव्यापिन्या च, तारश्रेण्या नक्षत्रपरम्परारूपया स्त्रजा पुष्पादिमालया हारं तनोति विरचयति किं नु । यद्वा-ताराणां शुद्धमौक्तिकानां श्रेणिर्यत्र । तादृश्या प्रथितमौक्तिकया मालया हारविरचनं युक्तमिति सन्ध्याकालः सन्ध्यामेवंविधां सञ्चिन्त्य नक्षत्रपरम्परामेव हारं विरचयति किमित्यर्थः । सन्ध्यारागः कियानवशिष्टोऽस्ति, मुक्तातुल्यानि नक्षत्राणि च किञ्चिदृश्यानि जातानीति भावः। तन्वा तारश्रेणिस्रजोपलक्षितेन तद्युक्तेन वियता गगनेनैव हारं तनोतीति वा । सन्ध्यामेवंविधां विज्ञाय तूष्णीम्भूत इति न, किन्त्वौचित्याद्विशिष्टया तारश्रेणिस्रजा हारमपि विरचयतीत्यर्थ इति वापिशब्दार्थः॥ अथ च-स प्रसिद्धो महानटस्ताण्डवनृत्तकर्ता शिवो भानोः सूर्यस्य रागे सति । अस्तमितार्धे सूर्ये सतीति यावत् । तत्र सन्ध्यासमये मनःशिलातुल्यवर्णामचिरस्था-