पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९०
नैषधीयचरिते

शकलैस्तैरेव उडुकोटीकपटं कोटिसङ्ख्यनक्षत्रव्याजं वहद्भिर्धारयद्भिः सद्भिरिह सायंसमये दिग्मण्डलं मण्डयति पश्य । एतानि नक्षत्राणि न, किन्तु ताण्डवत्वुटितास्थिमालोच्छलच्छकलान्येव दिक्षु शोभन्त इत्यर्थः । अन्योपि चन्द्रतुल्यकिरीटो नृत्यंस्त्रुटितहारखण्ड: स्त्रीवृन्दं मण्डयति । 'मण्डयतीव'इति पाठे-उत्प्रेक्षा

कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्विपस्य ।
तस्येव संध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥ ९ ॥

 काल इति ॥ हे प्रिये, कालः सन्ध्यासमय एव किरातः, अथच-कृष्णवर्णों हिंसकत्वान्मृत्युरूपो वा कालो गिरिमहारण्यसञ्चारी शबरः स्फुटानि विकसितानि पद्मानि यस्मिन् । यद्वा-विकसितकमलं कं जलं यस्मिन्, अथच-प्रकटीभूतं शुण्डादण्डाग्रे प्रकाशमानं पद्मकं रक्तबिन्दुवृन्दं यस्मिंस्तादृशस्य दिनरूपस्य द्विपस्य वधं व्यधादकरोत् । तस्यैव हतस्य करिणो रुचिरा रम्या सन्ध्यास्रधारा रुधिरधारा । ताराश्च नक्षत्राणि विदारिततदीयकुम्भस्थलमौक्तिकानि । सन्ध्यारागो रक्तधारा ताराश्च स्थूलमुक्ता इव शोभन्त इत्यर्थः । स्फुटपद्मकस्येति, बहुव्रीहौ कप् ॥

संध्यासरागः ककुभो विभागः शिवाविवाहे विभुनायमेव ।
दिग्वाससा पूर्वमवैमि पुष्पसिन्दूरिकापर्वणि पर्यधायि ॥ १० ॥

 सन्ध्येति ॥ विभुना प्रभुणा हरेण पूर्वं शिवायाः पार्वत्या विवाहावसरे सन्ध्यया सरागो रक्तवर्णोऽयमेव ककुभः पश्चिमाशाया विभागः प्रदेशः पुष्पवर्णयुक्ता सिन्दुरिका रक्तवस्त्रं तत्सम्बन्धिनि तद्योगात् पुष्पसिन्दूरिकाख्ये पर्वण्युत्सवे पर्यधायि परिहितः । यतो दिग्वलयमेव वासो यस्य तेन रक्तवस्त्रपरिधानावसरेऽपि दिग्वाससा औचित्याद्रक्तदिग्भाग एवानेन परिहित इत्यर्थः । वर्णकभूतपुष्पस्थाने ताराः, सिन्दूरिकास्थाने सन्ध्यासरागः पश्चिमदिग्भाग इति भावः ॥
 प्रातःसायंसन्ध्ययोः प्राचीप्रतीच्योर्द्वयोरपि तुल्यवर्णत्वात्सायंसंध्यारक्तपश्चिमदिश एव पुष्पसिन्दूरिकात्वं कथं वर्ण्यत इत्याक्षेपे तत्परिहारार्थं प्राच्या अपि तद्भावमाह-

सतीमुमामुद्वहता च पुष्पसिन्दूरिकार्थं वसने सुनेत्रे ।
दिशौ द्वि[१]संधीमभि रागशोभे दिग्वाससोभे किमलम्भिषाताम् ॥ ११ ॥

 सतीमिति ॥ हे सुनेत्रे, सतीं दाक्षायणीमुमां पार्वतीं चोद्वहता परिणयता दिग्वा- ससा हरेण पूर्वोक्तपुष्पसिन्दूरिकार्थं द्विसन्धीं अभि द्वे अपि प्रातःसायंसन्ध्ये लक्षीकृत्य द्वे प्राचीप्रतीच्यौ दिशावेव रागेण रक्तवर्णेन शोभा ययोस्ते, रक्तवर्णेन शोभेते इति वा, तादृशे रक्ते उभे द्वे वसने अलम्भिषातां प्राप्ते किम् । विवाहद्वये सन्ध्याद्वयरक्तदिग्द्वय- मेव दिग्वसनत्वाद्रक्तवस्त्रद्वयं शिवेन लब्धमित्यहं मन्य इत्यर्थः । शिवेन द्वे दिशावेव वस्त्रे द्वे सन्ध्ये लक्षीकृत्य रागेण रञ्जकद्रव्येण कृत्वा ये शोभे कर्मभूते ते प्रापिते किम् ।



  1. 'यदि 'द्विसन्ध्याम्' इत्ययमेव पाठः कवेरभिमतस्तर्हि सप्तम्येकवचनम्' इति सुखावबोधा