पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
नैषधीयचरिते

प्तिरित्यर्थः । विधिपत्रदंपती ये पद्मे एत्य रुतः शब्दं कुरुतः । 'रु शब्दे' । तथा सहसे कुरुत इति वा । कमलस्य हंससंयोगो युक्तः । भैमीपदयोः पद्मादप्युत्कृष्टत्वाद्धंसरवसमानशिञ्जितयोगाच्चेयमुत्प्रेक्षा । सुन्दरे सुकुमारे च सृजता ब्रह्मणा स्वीयहंसमिथुनमेव तद्भूषणत्वेन कल्पितम्, तादृशस्यान्यस्य भूषणस्याभावादिति ध्वनिः । 'हंसक पादकटकः' इत्यमरः । पक्षे 'शेषाद्विभाषा' इति कप्, ततश्च्विःX । रुत इति पक्षे संपदादिः॥

श्रितपुण्यसरःसरित्कथं न समाधिक्षपिताखिलक्षपम् ।
जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥ ३९॥

 श्रितेति ॥ जलजं कमलं दमयन्ती(न्त्याः) पदमेव चरण एव नाम यस्यैवंभूते जन्मनि जन्मान्तरे मञ्जुलां रम्यां गतिं गमनं, पुण्यलोकप्राप्तिरूपां दशां च कथं न एतु प्राप्नोतु । किंभूतम्-श्रितानि पुण्यानि श्रेयस्कारीणि सरांसि, श्रेयस्कारिण्यो नद्यश्च येन तत् । तथा-समाधिना मुकुलीभावेन सम्यगाधिना क्षपिता अतिवाहिताः क्षपा रात्रयो येन । अन्योऽपि सेवितपुण्यतीर्थः समाधिना योगाङ्गेनातिवाहितसमस्तरात्रिर्जन्मान्तर उत्तमां दशां प्राप्नोति तद्वद्भैमीपदप्राप्तिर्जलजस्य ॥  एतादृशी सा कथं त्वया ज्ञातेत्यत आह-

सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता।
अतिथित्वमनाथि सा दृशोः सदसत्संशयगोचरोदरी ॥ ४० ॥

 सरसीरिति ॥ सरसीः सरांसि परिशीलितुमवगाहितुं गमेर्धातोः कर्मीकृता गतिविषयीकृता नैका अनेका नीवृतो देशा येन एवंविधेन मया सा भैमी दृशोरतिथित्वं दृग्गोचरत्वमनायि आनीता । दृष्टेत्यर्थः । किंभूता-सदसतोरस्ति नास्तीति संशयस्तस्य गोचरो विषय उदरं यस्याः सा । अत्यन्तं कृशोदरीति भावः । एतेन क्वापि देशे तादृशी न दृष्टेति भावः । 'नीवृज्जनपदो देशविषयौ' इत्यमरः । सरसीः । गौरादित्वान्ङीष् । शीलेर्भौवादिकात्तुमुन् । नीवृत् 'नहिवृति-' इति दीर्घः । गोचरोदरी 'नासिकोदर-' इति ङीष्

अवधृत्य दिवोऽपि यौवतैर्नसहाधीतवतीमिमामहम् ।
कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥ ४१ ॥

 अवेति ॥ हे राजन्, अहमित्यचिन्तयं विचारितवानस्मि । किं कृत्वा-दिवोऽपि स्वर्लोकस्यापि यौवतैः स्त्रीसमूहैः सह नाधीतवतीं नाध्ययनकर्त्रीमिमां भैमीमवधृत्य निश्चित्य । सदृशैः सह पठ्यते किल । इतीति किम्-विधातुर्ब्रह्मण आशये मनस्यस्या भैम्याः कतमस्तु को वा पतिर्विद्यते इति । विधात्रा सुरसुन्दरीभ्योऽपि सुन्दर्या भैम्या योग्यः


 १ अत्र हंसशब्दवाच्यात्तथा शिञ्जितसंभवाच्चैवंभूतोत्प्रेक्षा' इति साहित्यविद्याधरी । २ 'अत्र समासोक्तिरलंकारः' इति साहित्यविद्याधरी । ३ 'अत्रौजो गुणः । यदुक्तम् ‘अर्थस्य प्रौढिरोजः' । सहृदयेन

वक्रोक्तिजीवितकारेण चैष पर्यायवक्रताप्रकारः कथ्यते' इति साहित्यविद्याधरी।