पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९१
द्वाविंशः सर्गः।


विवाहे वस्त्रं रञ्जनाय कस्यचित्करे समर्प्यते, तस्माच्छिवेन दिग्वलयरूपे मम द्वे वस्त्रे भवतीभ्यां रक्तशोभे प्रापणीये इति संध्याद्वयमाज्ञप्तं सदिग्द्वयं रक्तशोभं चकारेत्यर्थ इति वा । सुनेत्रीति पाठे-'असंयोगोपधात्' इति निषेधान्ङीष् चिन्त्यः । द्विसंधीम्, समाहारद्विगोरेकत्वे 'आबन्तो वा' इति स्त्रीत्वे च 'द्विगोः' इति ङीपि संध्याशब्दस्य तद्धितयदन्तत्वात् 'हलस्तद्धितस्य' इति यलोपः। 'अभिरभागे' इत्यभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । गत्यर्थत्वादणौ कर्तुर्णौ कर्मत्वं पक्षे ॥

आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।
अब्धौ निमजन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम्॥१२॥

 आदायेति ॥ योऽयं भानुरेव भिक्षुः परिव्राड् दण्डं पारिपार्श्वकमेव वैणवयष्टिमादाय सकलासु दिक्षु परिभ्राम्यति, सोऽयं तापसः परिव्राट् सायंकाले अब्धौ निमज्जन् पातालं प्रविशन् , अथ च-बहुजले जलाशये स्नानं कुर्वन् संध्यायामभ्रं गगनं तदेव कषायरक्तं वस्त्रमधत्तेव उपरि स्वस्योर्ध्वभागे, अथ च-उच्चतटस्योपरि दण्डस्योपरि वा धृतवानिव । एवं यतिरपि बहुकालावस्थानस्य निषिद्धत्वादुक्तलक्षणः सन् परिभ्रमणे काषायं वस्त्रं धारयति । काषायमिव संध्या शोभत इत्यर्थः । 'माठरः पिङ्गलो दण्डः (चण्डांशोः पारिपार्श्विकाः),भिक्षुः परिव्राट् कर्मन्दी' इत्यमरः । काषायम् , 'तेन रक्तम्-' इत्यण् ॥

अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः।
विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥१३॥

 अस्तेति ॥ यः सूर्यः अस्मिन्प्रतीच्यां वर्तमाने निकषोपलाभे सुवर्णपरीक्षापाषाणतुल्येऽस्ताचले संध्याराग एव कषोल्लेखः घर्षणोल्लेखस्तेन परीक्षितः । इयं द्यौस्तं हेलिं सूर्यमेव हिरण्यपिण्डं विक्रीय विनिमयेन कस्मैचिद्दत्त्वा तारारूपान्वराटान् कपर्दकानादित जग्राह । उत्तमं सुवर्णं रक्तपीतं भवति । तथाच रक्तपीतसुवर्णगोलकस्य निकषपरीक्षितसुवर्णरेखेव संध्या दृश्यते, ताराश्च वराटा इव दृश्यन्त इत्यर्थः । द्यौरिति लोकव्यवहारानभिज्ञत्वद्योतनार्थं स्त्रीलिङ्गनिर्देशः । स्त्री हि सुवर्णं दत्त्वा मूर्खतया वराटकान्गृह्णाति, धूर्तेन वञ्च्यते च । वराटकव्यवहारे देशे सुवर्णमपि दत्त्वा वराटका एव गृह्यन्ते ॥

पचेलिमं दाडिममर्कबिम्बमुतार्य संध्या त्वगिवोज्झितास्य ।
तारामयं बीजभुजादसीयं कालेन निष्ठ्यूतमिवास्थियूथम् ॥१४॥

 पचेलिममिति ॥ दाडिमबीजभुजा कालेन रक्तमर्कबिम्बमेव पचेलिमं तरोरुपर्येव स्वयं पक्वं दाडिमं फलमुत्तार्य गगनतरोस्स्रोटयित्वा बीजग्रहणार्थं भित्त्वा वा संध्यारुचिस्त्वगिव अस्य दाडिमस्य पक्वत्वाद्रक्तकृत्तिरिवोज्झिता परित्यक्ता । तद्बीजभक्षणार्थमुपरितनबीजकोशवत्संध्या पृथक्कृता । तथा-बीजभक्षणानन्तरं तारामयं तारारूपम-