पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०११

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९२
नैषधीयचरिते


दसीयममुष्य दाडिमस्य, अमीषां बीजानां वा, संबन्धि अस्थ्नां बीजमध्यस्थश्वेतकणाना यूथं वृन्दं निष्ठ्यूतमिवोद्गीर्णमिव बीजानि भक्षयित्वा गृहीतरसं तदन्तर्गतश्वेतकणवृन्दं पुनस्थूत्कृतमिव । नहि कालादन्यः सूर्यदाडिमं भक्षितुं समर्थः । अन्योपि दाडिममुत्तार्य तत्त्वचं परित्यज्य बीजान्यास्वाद्य गृहीतरसान्बीजकणांस्थूत्कृत्य त्यजति ॥

ताराततिर्बीजमिवादमादमियं निरष्ठेवि यदस्थियूथम् ।
[१] न्निष्कुलाकृत्य रविं त्वगेषा संध्योज्झिता पाकिमदाडिमं वा॥१५॥

तारेति ॥ सामर्थ्यात्कालेन कर्त्रा रविमेव तत् पक्रिमं दाडिमं निष्कुलाकृत्य निर्गतबीजकुलं कृत्वा बीजरूपं सारं गृहीत्वा तदीया त्वगेवैषा संध्या उज्झिता । वाशब्दः संभावनायाम् । उज्झिता किमित्याशङ्क्याह-बीजानि आदमादं भक्षयित्वा भक्षयित्वा यस्य सूर्यरूपस्य पक्कदाडिमस्य संबन्धि अस्थियूथमिवेयं ताराततिर्निरष्टेवि निष्ठय्ता। जग्ध्वा जग्ध्वा इत्यादमादम्, अदेराभीक्ष्ण्ये णमुल् द्विवचनं च । निरष्ठेवि, कर्मणि चिण् । निष्कुलाकृत्य, 'निष्कुलान्निष्कोषणे' इति डाच् । क्षेपकोऽयं क्ष्लोकः[२]

संध्यावशेषे धृतताण्डवस्य चण्डीपतेः पत्पतनाभिघातात् ।
कैलासशैलस्फटिकाश्मखण्डैरमण्डि पश्योत्पतयालुभिर्धौ: ॥१६॥

संध्येति ॥ हे प्रिये, संध्यावशेषे संध्यावन्दनान्ते धृतं ताण्डवनृत्यं येन तस्य चण्डीपतेः पदोश्चरणयोर्दृढं यत्पतनं तेनाभिघाताद्धेतोरुत्पतयालुभिरुत्पतनशीलैरुच्छलितैः कैलासशैलसंबन्धिस्फटिकाश्मनां खण्डैः शकलैर्द्यौरमण्डि अलंकृता पश्य । कैलासस्फटिकखण्डा एव गगने तारारूपेण शोभन्ते । उत्पतयालुभिः, 'स्पृहिगृहि-' इत्यालुच्॥

इत्थं ह्रिया वर्णनजन्मनेव संध्यामपक्रान्तवतीं प्रतीत्य ।
तारातमोदन्तु[३]रमन्तरिक्षं निरीक्षमाणः स पुनर्बभाषे ॥ १७ ॥

 इत्थमिति ॥ स नलः पुनर्भौमीं बभाषे। किंभूतः-इत्थमुक्तप्रकारेण वर्णनजन्मना स्तुतिजातया ह्रियेवापक्रान्तवतीं निर्गतां संध्यां प्रतीत्य निश्चित्यान्तरिक्षं गगनं तारातमोभ्यां दन्तुरितं मिश्रितं निरीक्षमाणः । अन्योप्युत्तमो निजवर्णनजातलज्जयापक्रामति ॥

रामेषुमर्मव्रणनार्तिवेगाद्रलाकरः प्रागयमुत्पपात ।
ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्र ॥१८॥


  1. 'तम्' इति सुखावबोधासंमतः पाठः।
  2. 'पूर्वेण गतार्थत्वात्' इत्यधिकं सुखावबोधायाम्
  3. 'अन्तरीक्षमित्यपि पाठः ‘अन्तरीक्षान्तरिक्षे च स्फटिकस्फुटिकावपि' इति स्वरभेदकोशप्रामाण्यादुचित एव' इति सुखावबोधा।