पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९५
द्वाविंशः सर्गः।


रामात्रात्मकत्वादलग्नमराशिभूतं वा इदं प्रत्यक्षदृश्यं कम्बु तारारूपः शङ्खोऽस्या रात्रियोगिन्या महतीं योगर्धिं योगसमृद्धिं वदति । दिवादर्शनाभावादिदानीं दृश्यमानः शङ्खो रात्रिर्जातेति कथयति । योगशक्तिं विना निराधारं वस्तु कथं स्थापयेत् । योगिन्यपि हि मृतमपि कंचिज्जीवयति, कंचिच्च मोहयति मूर्च्छां प्रापयति भ्रान्तं करोति वा । तस्माद्योगिनी किमित्युत्प्रेक्षा । कम्बुशब्दस्य नपुंसकत्वमप्यस्तीति पूर्वमेवोक्तं स्मर्तव्यम् । अजीजिवत् , अमूमुहदिति ‘णौ चङि-' इत्युपधाह्नस्वः॥

प्रबोधकालेहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती।
निशाह शून्याध्वनि योगिनीयं मृषा जगदॄष्टमपि स्फुटाभम् ॥२४॥

 प्रबोधेति ॥ हे प्रिये, प्रबोधकाले जागरणसमये, अथ च-सम्यग्ज्ञानोत्पत्तिसमये, अहनि दिने बाधितानि सूर्यदीप्तिध्वस्तकान्तीनि, अथ च भ्रान्तिकारणनाशान्निरुपपत्तीनि, तारा नक्षत्ररूपाणि खपुष्पाणि गगनसंबन्धीनि कुसुमानि नितरां दर्शयन्ती, अथ च-दृष्टान्तीकुर्वती, शून्याध्वनि बौद्धादिशून्यवादिदर्शने विषये योगिनी तद्दर्शनरहस्यं जानती काचित्प्रव्राजितैवेयं निशा स्फुटमाभाति तादृशं दृष्टमपि प्रत्यक्षेण प्रतीयमानमपि स्थावरजङ्गमात्मकं सकलं जगन्मृषासत्यमाह ब्रूते । बौद्धादिदर्शने हि ज्ञानस्यैव बहिर्घटाद्याकारत्वाज्ज्ञानातिरिक्तं सर्वं मिथ्येति तज्ज्ञा योगिन्यपि प्रपञ्चो मिथ्येति दर्शयति. तथेयमपि रात्रिरहन्यदृश्यान्यपि पुष्पतुल्यानि नक्षत्राणि निजयोगाद्ग- गने दर्शयतीति भावः । निदर्शनं करोतीवेति प्रतीयमानोत्प्रेक्षा॥

एणः स्मरेणाङ्कमयः सपत्राकृतो भवद्भूयुगधन्वना यः ।
मुखे तवेन्दौ लसता स तारापुष्पालिबाणानुगतो गतोऽयम्॥२५॥

 एण इति ॥ हे भैमि, तव मुख एवेन्दावाह्लादकत्वादिगुणयोगाञ्चन्द्रे लसता प्रकाशमानेन, तधा-भवभ्दूयुगमेव धनुर्यस्य तेन स्मरेण तव मुखेन्दौ 'विमतो मृगवांश्चन्द्रत्वात्संप्रतिपन्नवत्' इत्यनुमानप्रसिद्धो योऽङ्कमयः कलङ्करूप एणो मृगः सपत्राकृतः।मुखे तच्चापदर्शनाज्जठरावस्थितपत्रस्यैव बाणस्यापरपार्श्वे निर्गमनं यथा भवति तथा व्यथितः स एव मृगस्तारापुष्पालिर्नक्षत्ररूपपुष्पपङ्क्तिस्तल्लक्षणो बाणस्तेनानुगतः सन् सहित एव पलाय्य गतोऽयं गगनं दृश्यते किम् । चन्द्रे मृगेण भाव्यम् , स चात्र नास्ति, सचापः कामश्च मुखे लसति, गगने मृगशिरो नक्षत्रं मृगाख्यं बाणाकारपुष्पतुल्यतारानुगतं दृश्यते । तहि कामेन विद्धोऽन्तर्गतपत्रपार्श्वबहिनिर्गतबाणसहितो व्यथितः पलाय्य गतः स एवायं मृगो दृश्यते किमिति प्रतीयमानोत्प्रेक्षा । 'सपत्रनिष्पत्रादतिव्यथने' इति डाच् ॥

लोकाश्रयो मण्डपमादिसृष्टि ब्रह्माण्डमाभात्यनुकाष्ठमस्य ।
स्वकान्तिरेणूत्करवान्तिमन्ति घुणव्रणद्वारनिभानि भानि ॥२६॥

लोकेति ॥ हे भैमि, ब्रह्माण्डमादौ सर्वस्मादपि पूर्वं सृष्टिर्निर्माणं यस्य, अथच-चि-