पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९६
नैषधीयचरिते

रकालनिर्मितं पुराणम् , मण्डपमिति आभाति तदिव शोभत इत्यर्थः । यतो-लोकानां त्रयाणामपि आश्रयः ब्रह्माण्डाधारत्वाजगताम् । मण्डपोऽपि लोकानामाश्रयः, तच्छायानिवासित्वाल्लोकानाम् , आश्रयनामत्वाच्च । अत एव-अस्य ब्रह्माण्डमण्डपस्य अनुकाष्ठं दिशि दिशि एतत्संबन्धिनीषु सर्वासु दिक्षु, अथच -एतत्संबन्धीनि काष्टानि दारूणि लक्षीकृत्य, तेषु भानि नक्षत्राणि स्वकान्तिरूपस्योत्खातरेणूत्करस्य संबन्धिनी वान्तिरुद्गारस्तद्वन्ति घुणाख्यकीटनिर्मितो व्रणश्छिद्रं तस्य द्वारं मुखं तन्निभानि तत्तुल्यानि घुणोत्कीर्णदारुरजोयुक्तानि दारुच्छिद्रमुखानीव दृश्यन्त इत्यर्थः । जनाश्रयनामा मण्डपोऽप्यतिजीर्णो यदा भवति तदा तदीयकाष्ठेषु घुणाः पतन्ति घुणोत्कीर्णगलद्रजोयुक्तानि घुणकृतच्छिद्रमुखानि वृत्तानि श्वेतानि च दृश्यन्ते, तानीव भानि भान्तीति भावः। 'मण्डपोऽस्त्री जनाश्रयः' इत्यमरः। अनुकाष्ठम् , वीप्सायामव्ययीभावः, पक्षान्तरे विभक्त्यर्थे ।

 इदानीं सर्वदिग्व्यापितमोवर्णनं प्राच्यादिक्रमेणोपक्रमते-

शचीसपत्न्यां दिशि पश्य भैमि शक्रेभदानद्रवनिर्झरस्य ।
पोप्लूयते वासरसेतुनाशादुच्छृङ्खलः पूर इवान्धकारः ॥ २७ ॥

 शचीति ॥ हे भैमि, अन्धकारः शच्याः सपत्नी दिक प्राचीतस्या घासररूपस्य सेतोः सूर्यप्रभामर्यादाया नाशात् उच्छृङ्खलो निरर्गलः शक्रेभस्य दानद्रवो दानोदकं तम्य निर्झरः प्रवाहस्तस्य श्यामः पूर इव पोप्लूयते भृशं प्रसरति । प्राच्यां व्याप्नोतीत्यर्थः । त्वं पश्य । प्राच्यामेव चैरावतदानजलप्रवाहपूरसंभवः । जलपूरोपि बन्धापगमादप्रतिहतप्रसरः सन्नतितरां प्रसरति । 'प्लुङ् सर्पणे' इत्यस्माभ्दृशार्थ यङ्ग द्विर्वचनम् ॥

 दक्षिणदिग्व्यापि तमो वर्णयति-

रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य ।
यद्वीक्ष्य दूरादिव बिभ्यतः स्वानश्वान्गृहीत्वापसृतो विवस्वान ॥ २८॥

 रामेति ॥ श्रीरामस्यालिः सेतुः सेतुबन्ध एव श्यामत्वाद्रोमावलिर्यस्तस्या दक्षिणस्या दिशो विगाहि नितरां व्यापकम् अन्तकस्य दिक्पतित्वाद्दक्षिणादिक्स्थं नद्वाहनं महिष एव ध्वान्तायते कज्जलनीलोऽन्धकार इवाचरति । विवस्वान् सूर्यः यद्यमवाहनं दूराद्वीक्ष्य सहजाश्वमहिषवैरस्मरणाद्विभ्यतः सभयान् स्वानश्वान् गृहीत्यापसृतः पलायित इव । दक्षिणदिशि तिमिरं यममहिषवच्छोभते इत्यर्थः । अन्तकपदेन तद्वाहनस्य दारुणत्वं सूचितम्, अत एव ततोप्यश्वानां भयं युक्तम् । ध्वान्तायते 'उपमानादाचारे, कर्तुः क्यङ्-' इति क्यङन्तात्तङ् । 'सेतुरालौ स्त्रियां पुमान्' इत्यमरः ॥

 प्रतीचीव्यापितमो वर्णयति-

पक्कं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् ।
भिन्नस्य तस्यैव दृषन्निपाताद्वीजानि जानामितमां तमांसि ॥२९॥