पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९८
नैषधीयचरिते


 अधोदिग्व्यापि तमो वर्णयति-

ऊर्ध्वार्पितन्युब्जकटाहकल्पे यव्द्योम्नि दीपेन दिनाधिपेन ।
न्यधायि तद्भूममिलद्गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम् ॥३२॥

 ऊर्ध्वेति ॥ सामर्थ्याद्विधिना ऊर्ध्वं सूर्यदीपस्यैवोपरि भागे अर्पितो न्युब्ज: कज्जलधारणार्थमधोमुखो महान् कटाहः कर्परं तत्कल्पे तत्तुल्ये कृष्णतमे व्योम्नि अधिकरणे प्रकाशकारिणा कज्जलधारणार्थेन दिनाधिपेनैव दीपेन करणेन यत्कजलं न्यधायि न्यस्तम् , तत्कजलमेव तमो भूम्ना क्रमसंजातबाहुल्येन कृत्वा मिलद् युक्तं पतनाख्यकर्मकारणं गुरुत्वं यस्य तादृशं सद्भूमावस्खलत् किम् । अतिभारेण पतितं किम् । गुरुत्वाद्धि पतनं युक्तम् तत्कज्जलमेव भूमौ पतितं किम् , अपितु तमो नाम न किंचिदित्यर्थ इति वा । कज्जलमपि कर्परे धृतं क्रमेण बहु भवद्गुरुत्वादधः पतति । 'कटाहः कर्परे तथा' इति निघण्टुः । ईषदमाप्तौ कल्पप् ॥

ध्वान्तणनाभ्या शितिनाम्बरेण दिशः शरैः सूनशरस्य तारैः ।
मन्दाक्षलक्ष्या निशि मामनिन्दौ सेर्ष्या इवायान्त्यभिसारिकाभाः ॥ ३३ ॥

 ध्वान्तेति ॥ ध्वान्तेनैवैणनाभ्या कस्तूर्या । तथा शितिना नीलेनाम्बरेण गगनेन, अथ च-वस्त्रेण, यद्वा-ध्वान्तैणनाभ्या कृत्वा नीलेन गगनेनोपलक्षिताः। तथा--निशितत्वात्पुष्पतुल्यरूपत्वाच्चोज्वलैः तारैर्नक्षत्रैरेव सूनशरस्य कामस्य शरैरुपलक्षिताः, अथ च-तारैरुज्वलैः पुष्पैरुपलक्षिताः । तथा प्रकाशाभावान्मन्दाक्षैर्मन्दनयने लक्ष्या लक्षणीया, अथ च-मन्दाक्षस्य लज्जाया विषयभूताः सलज्जा:। अत एवाभिमारिकाभा: स्वैरिणीतुल्या दिशोऽनिन्दौ चन्द्ररहितायामनुदितचन्द्रत्वाच्छयामायां निशि मामायान्ति प्रत्यागच्छन्ति । तस्मात्सपत्नीभ्रान्त्या त्वं सेर्ष्या भव । अभिसारिका अपि शुभ्रायां रात्रौ शुभ्रवस्त्राद्याभरणाः, कृष्णायां च रात्रौ कृष्णवस्त्राद्याभरणाः समायान्ति ता अपि कस्तूरीकृताङ्गरागा नीलवसनाः प्रच्छन्नधृतपुष्पा: कामबाणपीडिताः मलज्जा: सत्यः कामुकं प्रति समायान्ति, तदीयनायिका च सेर्ष्या भवति, तथा दिशापीत्यर्थः । सर्वा अपि दिश एकत्र मिलिता इति प्रतीतिः । तिर्यग्व्यापि तमो वर्णितमनेन । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इति । 'मन्दाक्षमन्दाः' इति पाठे मन्दनयनानामल्पदृश्यास्तमोबाहुल्यात् । अथ च-तमोबाहुल्यान्मन्दाक्ष्यः, अतएव मन्दगमना इत्यर्थः । तारशब्दः पूर्ववत् । मन्दाक्षेति पुंवद्भावः ॥

भास्वन्मयीं मीलयतो दृशं द्रामिथोमिलव्द्यञ्चलमादिपुंसः।
आचक्ष्महे तन्वि तमांसि पक्ष्म श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म ॥ ३४ ॥

 भास्वदिति ॥ हे तन्वि कृशाङ्गि, भास्वन्मयीं रविरूपां दक्षिणां दृशमस्तमयव्याजेन द्राक् शीघ्रं मीलयतः संकोचयतः आदिपुंसः श्रीविष्णोर्मिथोऽन्योन्यं मिलन्ता द्वावष्यञ्चलावूर्ध्वाध:पुटे यस्य निमीलनवशादन्योन्यसंलग्नपुटत्वानिबिडरोमकम् , अत एव