पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००३
द्वाविंशः सर्गः।

यदेवं श्रूयते तत्सत्यमित्यर्थः । पुरा उदस्थात्प्रथमसम्भवावसरे तस्मादेव समुत्थित इति वा । तत्र हेतुमाह-यस्माद्धेतोरधुनापि सम्भवान्तरावसरेऽपि सिन्धौ स्थितस्य सागरगर्भस्थस्याप्यमुष्य चन्द्रस्य शैलादुदयाचलादेवोदयमुत्पत्तिं प्रतीमो जानीमः । प्रत्यहं सागरस्थस्याप्यस्याचलोत्पत्तिशीलत्वरूपलिङ्गदर्शनात्समुद्रमथने प्रथमसम्भवावसरेऽप्ययमचलादेवोत्पन्न इति निश्चिनुम इत्यर्थः । उदयाचलशिखरं चन्द्रोऽतिक्रामतीति भावः॥

निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन ।
सिन्दूरसान्द्रे किमकारि मूर्ध्नि तेनारुणश्रीरयमुज्जिहीते ॥ ४५ ॥

 निजेति ॥ निजानुजेन एकस्मात्सिन्धोरुत्पन्नतयास्माञ्चन्द्रात्पश्चाज्जातेन कनीयसा भ्रात्रा प्राचीपतेरिन्द्रस्य वाहनवारणेन प्राच्यां स्थितेनैरावतेनातिथितामुपेतः प्राप्तः । प्राच्यामुदितत्वात्तत्सविधं प्राप्तः सन्नयं चन्द्रोऽग्रजत्वात्सिन्दूरेण सान्द्रे मूर्घ्नि अकारि कृतः किम् । गौरवान्नमस्कारपूर्वं शिरस्यारोपितः किमित्यर्थः । तेन सान्द्रसिन्दूरशिरः- स्थापने हेतुना लग्नसिन्दुरवशादयमरुणश्रीरारक्तशोभः उज्जिहीते उदेति । उज्जिहीते किमिति वा । उदितश्चन्द्रः सिन्दूररक्तो दृश्यते इत्यर्थः ॥

यत्प्रीतिमद्भिर्वदनैः स्वसाम्यादचुम्बि नाकाधिपनायिकानाम् ।
ततस्तदीयाधरयावयोगादुदेति बिम्बारुणबिम्ब एषः ॥ ४६ ॥

 यदिति ॥ वृत्तत्वादिगुणयोगेन स्वसाम्यात्प्रीतिमद्भिर्नाकाधिपस्येन्द्रस्य नायिकानां वदनैर्यद्यस्मात्स्वसविधमागत एष चन्द्रोऽचुम्बि चुम्बितः, तस्माद्धेतोस्तस्माच्चुम्बनाद्वा तदीयानां देवेन्द्रनायिकानामधरेषु न्यस्तो यावोऽलक्तकस्तस्य योगात्सम्बन्धाद्धेतोर्बिम्बवत्पक्वबिम्बीफलपदरूणं बिम्बं मण्डलं यस्य तादृश उदेति । अन्योपि समानः सखा सविधमागतः सन् सख्या प्रीत्या चुम्ब्यते । मुखैरिति बहुवचनेन तत्र प्रदेशे युगपदेव चुम्बनाबहुलयावकयोगात्सकलस्यापि चन्द्रबिम्बस्य रक्तत्वं युक्तमिति सूचितम् ॥

विलोमिताङ्कोत्किरणाहुरूहदृगादिना दृश्यविलोचनादि ।
विधिर्विधते विधुना वधूनां किमाननं काञ्चनसञ्चकेन ॥ ४७ ॥

 विलोमितेति ॥ विधिर्यह्मा विधुना चन्द्रेणैव काञ्चनस्य सञ्चकेन विम्बकेन कृत्वा व. धूनामतिरमणीयमाननं विधत्ते किम् । यतः-किंभूतेन-विलोमितः पराङ्मुखः कृतः स्वप्रभया जितः अङ्कः कलङ्को येन तादृशादुत्कृष्टादतितेजस्विनः किरणाद्धेतोर्दुरूहो दुस्तक्यों दृगादिर्नेत्राद्यवयवो यस्य, अथच -विपरीतीकृतानामङ्कानां नेत्रादिनिर्मा- णार्थं निम्नोन्नतांशचिह्नस्थानानामुत्किरणं संघटनं तस्माद्धेतोः साक्षादलक्ष्यनेत्रकर्णना- सिकाद्यवययेन । आननं तु साक्षादृृश्या विलोचननासाकर्णाद्यवयवा यस्य तादृशम् । तस्माब्रह्मा स्त्रीमुखं चन्द्ररूपेण महाराष्ट्रभाषया ढसाख्येन स्वर्णस्य सञ्चकेन निर्ममे।