सञ्चके हि निष्पाद्यस्य वस्तुनो निम्नोन्नतभागा विपरीता एवोत्कीर्यन्ते । तत्र च नेत्राद्यवयवा दुर्ज्ञेया भवन्ति, तन्निर्मिते मुखादौ च दृश्या भवन्ति, तस्मादेवं तर्क्य॑न्त इत्यर्थः । उदितमात्रश्चन्द्रोऽत्युत्तमसुवर्णसञ्चकवद्रक्तो दृश्यत इति भावः । उत्तमं सुवर्ण रक्तवर्णं भवति । आननमिति जात्यैकवचनम् ॥
अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन । |
अनेनेति ॥ वेधाः विपरीतरूपं यथा तथा विनिर्मितमुक्तविधमङ्कोत्किरणं यत्र तादृशमङ्गं यस्य तेन । तथा-अलक्ष्यदृगादिनानेन चन्द्रेणैव सञ्चकेन दृश्यं मुन्दरत- रम् , अथच-प्रत्यक्षदर्शनयोग्यं दृगादि यस्य तादृशं त्वदाननमकृत । त्वदाननमेवाकृत न त्वन्याननमिति वा । अयमेवात्र श्लोके विशेषः । अयं श्लोकः क्षेपकः ॥
अस्याः सुराधीशदिशः पुरासीद्यदम्बरं पीतमिदं रजन्या। |
अस्या इति ॥ हे भैमि, अस्याः सुराधीशस्येन्द्रस्य दिशः यदिदमम्बरं गगनं वस्त्रं च पुरा चन्द्रोदयात् पूर्वं रजन्या रात्र्या हरिद्रया च पीतं तमोव्याप्तत्वाददृश्यं पीतवर्णं चासीत् । तेनाम्बरेण गगनेन वस्त्रेण चाधुना चन्द्रोदये चन्द्रांशुनां चूर्णः श्लक्ष्णमूक्ष्मतेजोलेशैः कर्तृभिर्यतिचुम्बितेनातितरां स्पृष्टेन सता चन्द्रांशुवच्छुभ्रतरेण चूर्णेन ताम्बूलसाधनचूर्णद्रव्येण स्पृष्टेन सता नूनमलोहितायि आरक्तीभूतम् । यत्तमसा पूर्वं नीलमभूत्तदेवेदानीमुद्यश्चन्द्रालोहितकरसंस्पर्शाद्रक्तं जातमित्यर्थः । हरिद्रया पीतवर्णं वस्त्रं चूर्णेन युक्तं सद्रक्तं भवति । देवेन्द्रस्त्रियाश्च वस्त्राणि नानावर्णानि युक्तानि । चन्द्रांशव एव चूर्णमिति वा । अलोहितायि, लोहितादिक्यपन्ताद्भावे चिण् ॥
तानीव गवा पितृलोकमेतमरञ्जयन्यानि स जामदग्न्यः । |
तानीति ॥ सोऽतिचीरो जामदग्यः सहस्रबाहोः शिरछित्त्वा विस्राण्यामगन्धानि यान्यस्राणि रक्तानि पितृभ्यो जमदग्न्यादिभ्यो विश्राणितवान्दत्तवान् । ये रक्तः प्रतिज्ञातं पितृतर्पणं कृतवान् । तान्येव रक्तानि मस्रबलात्पितृलोकं गत्वा प्राप्य पितृलोकाधीनमेनं चन्द्रमसं जयन् रक्तं चक्रुरिव । 'चन्द्रो वै पितृलोकः' इति श्रुतेः । चन्द्रो रक्तवर्णो दृश्यत इति भावः। परशुरामः सहस्रार्जुनं हत्वा तदीय रक्तः पितृतर्पणं कृतवानितीतिहासः । 'विस्रं स्यादामगन्धि यत्' इत्यमरः ॥
अकर्णनासस्रपते मुखं ते पश्यन्न सीतास्यमिवाभिरामम् । |
अकर्णेति ॥ हे प्रिये, शशी सीतास्यमिवाभिरामं कर्णादिकृतशोभं ते मुखं पश्यन्सन्न