पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००६
नैषधीयचरिते


'नेत्रं मथिगुणे वस्त्रे' इत्यभिधानान्नेत्रशब्दो यद्यपि मन्थवेष्टनगुणे मुख्यः, तथाप्यत्र गुणमात्रपर इति ज्ञेयम् ॥

ताराक्षरैर्यामसिते कठिन्या निशालिखव्द्धोम्नि तम:प्रशस्तिम् ।
विलुप्य तामल्पयतोऽरुणेपि जातः करे पाण्डुरिमा हिमांशोः ॥ ५४ ॥

तारेति ॥ निशाऽसिते श्यामे व्योम्नि गगन एव कज्जलादिलिप्तश्यामलपट्टिकायां कठिन्याः शुभ्रधातुविशेषस्य संबन्धिभिस्ताराक्षरैः शुभैरक्षरैरिव नक्षत्ररूपैरक्षरैः कृत्वा यां तमःप्रशस्ति तमोवर्णनश्लोकादिलिपिमलिखत् । ताराक्षरैरुपलक्षितां यां तमप्रशस्तिं रात्रिः कठिन्यालिखदिति वा । तां लिपिं विलुप्य प्रोञ्छ्याल्पयतः परिमेयताराक्षरां कुर्वतो हिमांशोररुणेऽपि करे किरणे, अथच-पाणी, पाण्डुरिमा जातः । प्ररूढकिरणे हि चन्द्रे नक्षत्राणामल्पता भवतीति खटिकालिखिताक्षराणि मार्जयतश्चारक्तोपि करः खटिकासङ्गाद्घवलो भवतीति । तमसि नक्षत्राणि बहन्युज्ज्वलतराणि च दृष्टानि, चन्द्रे तूदितेऽल्पानि निष्प्रभाणि च जातानि, चन्द्रश्च धवलो जात इति भावः ॥

सितो यदात्रैष तदान्यदेशे चकास्ति रज्यच्छविरुज्जिहानः ।
तदित्थमेतस्य निधेः कलानां को वेद वा रागविरागतत्त्वम॥५५॥

सित इति ॥ एष चन्द्रो यदा यस्मिन्काले अत्र देशे सितो धवलश्चकास्ति, तदा तस्मिन्नेव काले अन्यदेशे रज्यच्छवी रक्तकान्तिरुज्जिहान उदयन शोभते । एवमत्रोदयवक्तः, अन्यत्र च श्वेत इत्यपि सामर्थ्याल्लभ्यम् । एतद्देशस्थं प्रतीदानीं सितो दृश्यते, द्वीपान्तरस्थं प्रति तूदयन्निदानीमेव दृश्यते यस्मात्, तस्मात्कलानां निधेः पूर्णस्य चन्द्रस्य गगविरागयोर्लोहितत्वयोस्तत्त्वं याथात्म्यमित्थममुना प्रकारेण को वा वेद, अपितु कोपि निश्चेतुं न शक्नोतीत्यर्थः । उदयास्तमययोरतात्त्विकत्वाद्यवहितस्य यत्र यदा प्रथमदर्शनं तदा तत्रोदय इति दूरस्थस्य प्रथमं रक्तत्वप्रत्ययः, क्रमसामीप्यात्तु धावल्यप्रत्यय इति तत्त्वम् । अन्यस्यापि चतुःपष्टिकलाभिज्ञस्यानुरागाननुरागयोर्याथात्म्यं कुत्रानुरक्तः, कुत्र वा नेति कोपि न जानाति ॥

कश्मीरजै रश्मिभिरौपसंध्यैर्मृष्टं धृतध्वान्तकुरङ्गनाभि ।
चन्द्रांशुना चन्दनचारुणाङ्गं क्रमान्समालम्भि दिगङ्गनाभिः ॥ ५६ ॥

 कश्मीरजैरिति । दिग्भिरेवाङ्गनाभिः संध्यायाः समीपमुपसंध्यं तत्र जातैररूणै रश्मिभिरेव कश्मीरजैः कुङ्कुमैः कृत्वा मृष्टं पूर्वं कृतोद्वर्तनं ततः संध्यायामपगतायां धृता ध्वान्तरूपा मृगनाभिः कस्तूरी येन तादृशमङ्गं क्रमात्कस्तूरीलेपानन्तरं चन्द्रांशुनैव चन्दनेषु मध्ये चारुणोत्तमेन चन्दनेन कृत्वा समालम्भि अलेपि । अन्या अपि ह्यङ्गनाः कुङ्कुमादिभिः क्रमेणाङ्गमनुलिम्पन्ति । चन्दनधवलैश्चन्द्रकरैः सर्वा अपि दिशा वितमस्काः कृता इति भावः । औपसंध्यैः सामीप्येऽव्ययीभावाद्भवार्थेऽण् ॥