पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१५
द्वाविंशः सर्गः।

पृष्ठेऽपि किं तिष्ठति नाथ नाथ रङ्कुर्विधोरङ्क इवेति शङ्का ।
तत्वाय तिष्ठस्व मुखे स्व एवं यद्वैरथे पृष्ठमपश्यदस्य ॥८१॥

 पृष्ठ इति ॥ हे नाथ, विधोरङ्क इव यथा चन्द्रस्योत्सङ्गे कलङ्कमृगो वर्तते, तथा रङ्कुः पृष्ठेपि पश्चाद्भागे किं तिष्टति, अथ न तिष्ठति इति तवाशङ्का चेद्वर्तते इति शेषः । तर्हि त्वं तत्त्वाय याथात्म्यज्ञानार्थं स्वे निजे मुखे एव विषये तिष्ठस्व । निजमुखमेव निर्णयं पृच्छत्यर्थः । यत्त्वन्मुखं द्वैरथे समानशोभाभिलाषाद्विरथसंबन्धिनि द्वन्द्वयुद्धेऽस्य त्वन्मुखाद्भज्यमानत्वात्पलायमानस्य चन्द्रस्य पृष्टं पश्चाद्भागमपश्यत् । तस्मात्तत्स्वमुखमेव निर्णेतृत्वेन पृच्छेत्यर्थः । त्वन्मुखं चन्द्रादधिकमिति भङ्गया नलमुखवर्णनं मे कृतम् । तत्त्वाय तत्त्वं ज्ञातुं, 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी, तादर्थ्यमात्रे वा । तिष्ठस्त्र, स्थेयाख्यायां तङ् । स्वे, वैकल्पिकत्वात्स्मिन्नभावः ॥

उत्तानमेवास्य वलक्षकुक्षिं देवस्य युक्तिः शशमङ्कमाह ।
तेनाधिकं देवगवेष्वपि स्यां श्रद्धालुरुत्तानगतौ श्रुतायाम् ॥४२॥

 उत्तानमिति ॥ युक्तिरर्थापत्तिरनुमानं वास्य देवस्य चन्द्रस्य मध्यवर्तिनमङ्कं कलङ्करूपं शशमुत्तानं स्वर्गसंमुखमस्मदादिदृश्यमानपृष्टभागमाह ब्रूते । यतो वलक्षकुर्क्षि धवलोदरम् । यद्ययं शशकोऽस्मन्संमुखोदरोऽनुत्तानोऽभविष्यत् , तर्हि मध्यवर्तिशशकोदरस्य धवलत्वाचन्द्रमध्यभागोपि धवलोऽभविष्यत् , नच तथा दृश्यते, किंतु मलिनः । तस्मादुत्तान एव शशकश्चन्द्रेस्तीति युक्तिराहेत्यर्थः । तेन चन्द्रशशकनिश्चितोत्तानन्वेनैव हेतुनाहं देवगवेष्वपि सुरभीप्रभृतिषु विषये वेदे श्रुतायामुत्तानगतौ सुरलोकसंमुग्वचरणतया गमने विषये पूर्वापेक्षयाधिकमतितरां श्रद्धालुरास्तिक्ययुक्ता म्याम् । 'उत्ताना व देवगवाश्चरन्ति' इति श्रुतिर्न्यायोपपन्नार्थतया सत्यैवेत्यहमिदानीमधिकं मन्य इत्यर्थः । देवगवेषु, 'गोरतद्धितलुकि' इति टच् । 'देवगवीपु' इति पाठे टित्त्वान्डी ॥

 उत्तरीत्यात्तानगतौ सिद्धायामपि शशकस्य रक्तपृष्ठत्वान्नीलत्वेन प्रतीतिः कथमित्यत आह.-

दूरस्थिते वस्तुनि रक्तनीले विलोक्यते केवलनीलिमा यत् ।
शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः ॥८३॥

 दुरेति ॥ अदृरम्पितैर्द्रपृभी रक्तनीले मिश्रितोभयवर्णे वस्तुनि केवलस्त्यक्तरागभागो नीलिमेय यद्यस्माद्विलोक्यते तत्तस्मात्कारणाच्छशस्य पृष्ठतिरोम्णा तिष्ठन्नपि रागभागो रक्तिमांशः नोऽस्माकमतिदूरस्थितानां खलु निश्चितं परोक्षो दृग्गोचरो न भवति, किंतु नीलमेय दृश्यत इत्यर्थः । तिष्ठन्वर्तमानोपि परोक्ष इति विरोधाभासः । दूरस्थत्यान्न दृश्यत इति तत्परिहारः । खलूत्प्रेक्षायां वा ॥