पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१६
नैषधीयचरिते


भङ्त्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः ।
शशो यदस्यास्ति शशी ततोऽयमेवं मृगोऽस्यास्ति मृगीति नोक्तः॥६४॥

 भङ्त्तुमिति । एष कविर्लोकः पदानां सुप्तिङघन्तानां प्रयोगाध्वनि विषये व्याकरणस्य प्रकृतिप्रत्ययविभागपूर्वं शब्दव्युत्पादनकारिणः शास्त्रस्य मद्धीन एव सकलशब्दप्रयोग इति दर्पं गर्वं, यद्वा-लक्षणया वैयाकरणस्य व्याकरणाधीन एव सकलशब्दप्रयोग इति गर्वं भङ्त्तुं त्याजयितुं प्रभुः समर्थः। यद्यस्माद्धेतोरयं चन्द्रः शशोऽस्यास्ति ततो हेतोः शशी यथोक्तो लोकेनेति शेषः। एवममुनैव प्रकारेण मृगोस्यास्ति मृगीति नोक्तः । शशोस्यास्तीति मतुबर्थे 'अत इनिठनौ' इतीनौ यथायं शशीत्युच्यते, तथा तेनैव सूत्रेण मृगोऽस्यास्तीत्यत्रेनेः प्राप्तौ सत्यामपि मृगीति नोक्तः। तस्मादतिव्याप्त्यादिदोषाध्याकरणमूल एव लोकप्रयोग इति नियमो न युक्तः किंतु कृत्तद्धितसमासानामभिधानं नियामकम् । लक्ष्यमुद्दिश्य लक्षणप्रवृत्तिः, नतु लक्षणमुद्दिश्य लक्ष्यप्रवृत्तिरिति । तस्मात्प्रयोगमूलं व्याकरणमिति व्याकरणाल्लोक एव प्रयोगे बलीयानिति भावः । अप्रस्तुतप्रशंसा॥

यावन्तमिन्दुं प्रतिपत्प्रसूते प्रासावि तावानयमव्धिनापि ।
तत्कालमीशेन धृतस्य मूर्ध्नि विधोरणीयस्त्वमिहास्ति लिङ्गम् ॥६५॥

 यावन्तमिति ॥ शुक्लप्रतिपद्यावन्तं यत्प्रमाणमेककलमिन्दुं प्रसूते, अधिनापि तावांस्तत्प्रमाण एककल एवायं प्रासावि, नतु पूर्ण इत्यर्थः । एतत्कथं शातमित्यत आह-तत्कालं तस्मिन्काले समुद्रादुत्पत्तेरवसर एव ईशेन मूर्ध्निं धृतस्य विधोरणीयस्त्वं नितरां कार्श्यमेवेहैककलत्वे लिङ्गं शापकमनुमापको हेतुरस्ति । यदि समुद्रेण संपूर्णोऽयमजनिप्यत, तर्हि शिवेनापि तदानीमेव शिरसि तावानेवाधास्यत, नतु तथा, तस्मान्प्रतिपदैककलः प्रसूतः, तावान्समुद्रेणापीति प्रतिपदुत्पन्नोप्ययमेककलत्वादेव न दृश्यत इति भावः॥

आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे ।
तत्संवदत्यङ्कमृगस्य नाभिकस्तूरिका सौरभवासनाभिः ॥६६॥

 आरोप्यत इति ॥ केतकत्वमिहेन्दौ चेद्यदि आरोप्यते यतो दलाकारः केतकीपत्रसदृशः धवलः कलानां कलापः समूहो यस्य तस्मिन् । तत्तस्मात्केतकदलवच्छुभ्रकलाकलापत्वाच्चन्द्रः केतकमेवेति रूप्यत इत्यर्थः । तत्तर्हि अङ्कमृगस्य मृगत्वेन नाभिकस्तू रिका की आरोपितं तत्केतकत्वं कर्मीभूतं सौरभवासनाभिः कृत्वा संवदति । चन्द्रं केतकत्वं युक्तमित्यनुमन्यत इत्यर्थः । 'नाभिः' इति पाठे-अङ्कमृगस्य नाभिः कर्त्री कस्तूरिकासंवन्धिसौरभवासनाभिः कृत्वा संवदतीति वा । केतक्यां कस्तुरीपरिमलो वर्तते, चन्द्रे कलङ्कमृगनाभिरूपा कस्तूरी वर्तते । तस्माच्चन्द्रे केतकत्वमारोपयितुं युक्तमित्यर्थः । तत्केतकत्वमङ्कमृगस्य नाभिकस्तूरिकायाः परिमलस्य वासनाभिः संक-