पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२७
द्वाविंशः सर्गः


मणैः कृत्वा संवदति युक्तया संवादं प्राप्नोत्येवेति वा । 'ताभिः' इति पाठे-अतिप्रसिद्धाभिर्वासनाभिः ॥

आसीद्यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्ततोऽभूत् ।
स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदशावशेषः ॥ ८७ ॥

 आसीदिति ॥ एष शशी यथाज्यौतिषं गर्गादिमुनिप्रणीतग्रहगणितशास्त्रानतिक्रमेण गोलः कपित्थफलवर्तुलोपरितनभाग एव पूर्वमासीत् । तर्हीदानीं कथमन्यथा दृश्यत इत्याशङ्क्याह -ततोऽनन्तरं कालक्रमेण स्वर्भानो राहोरूर्ध्वाधोभागस्थितदंष्ट्रायुगमेव यन्त्रं निष्पीडनचक्रं तेन कृष्टं निष्कृष्य गृहीतं पीयूषममृतं यस्य, यस्माद्वा, स चासौ पिण्याकश्च तस्य दशा गृहीतरसनीरसतिलादिपिण्डीमात्ररूपतावशेष उद्धृतो भागो यस्यैवंभूतः सन् चिपिटः पर्पटप्रायोऽभूदिति समक्षमिदानीं प्रत्यक्षेणानुभूयत एवेत्यर्थः । ज्योतिराधिकृत्य कृतो ग्रन्थो ज्यौतिषम्, 'अधिकृत्य कृते ग्रन्थे' इत्यण् । ततो यथार्थेऽव्ययीभावः । ज्योतिःशास्त्रादौ त्रयोदशाङ्गुलश्चन्द्रः षोडशाङ्गुलस्य सूर्यस्याधोभागम्यो जलपूर्णकाचकृषिकाप्रायो यथोदितः, तथैव पूर्वमासीदित्युक्तम् ॥

असावसाम्याद्वितनोः सखा नो कर्पूरमिन्दुः खलु तस्य मित्रम् ।
दग्धौ हि तो द्वावपि पूर्वरूपाद्यवीर्यवत्तामधिकां दधाते ॥ ८४॥

 असाविति ॥ असौ चन्द्रो वितनोरनङ्गस्य सखा नो भवति । कुतः-असाम्यादसादृश्यान् । विवाहमैस्त्रीवैराणि भवन्ति समशीलयोः' इति शास्त्रादनयोः साङ्गानङ्गयोः साद्रिश्याभावान्मैत्री न संगच्छत इत्यर्थः ।तहीनयोर्लोकप्रसिद्धा मैत्री कथमित्यत आह खलु निश्चितं कर्पूरापरनामैवेन्दुस्तस्यनङ्गस्य मित्रम् , तावतैव लोकप्रसिद्धिरिति विरोधाभाव इत्यर्थः । तत्र हेतुमाह-यद्यस्मात्तौ द्वावपि कामकर्पूरौ दग्धौ सन्तौ पूर्यरूपाददग्धदशायाः सकाशादधिकां वीर्यवत्तां हि स्पष्टं दधाते । पक्वो हि कर्पूरो वीर्यवत्तरो भवति, कामोपि दाहानन्तरमधिकं वीर्यवाननुभूयते । तदुक्तम्-'कर्पूर इव दग्धोपि शक्तिमान्यो जने जने । नमोस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥' इति । तस्मात्कामकर्पूरयोर्मैत्री युक्त्ता । 'अथ कर्पूरमस्त्रियाम् । धनसारश्चन्द्रसंज्ञः' इत्यमरः । 'अप्रियाम्' इत्यमरवचनात्कारशब्दो नपुंसकोऽपि ॥

स्थाने विधोर्वा मदनस्य सख्यं स शंभुनेत्रे ज्वलति प्रलीनः ।
अयं लयं गच्छति दर्शभाजि भास्वन्मये चक्षुषि चादिपुंसः॥८९॥

 स्थान इति ॥ वाथया विधोर्मदनस्य सख्यं स्थाने । युक्तमेवेत्यर्थः । तत्र हेतुः-स कामः ज्वलति देदीप्यमाने शंभुनेत्र प्रलीनः प्रकर्षण लीन एकतां प्रलयं गतः। विनष्ट इत्यर्थः । अयं चन्द्रश्च दर्शभाजि दर्शनं दर्शस्तह्यापारयुक्ते, अथच-अमावास्यां गते, भास्वन्मये सूर्यरूपे आदिपुंसो विष्णोश्चक्षुषि लयमेकतां गच्छति । दर्शै हि चन्द्रः सूर्यं गच्छति, अतएव दर्शस्य सूर्येन्दुसंगम इति नाम । सूर्यो विष्णोदक्षिणं चक्षुः ।