पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१९
द्वाविंशः सर्गः।

स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता जगद्भारपरिश्रमार्ता।
छायापदेशाद्वसुधा निमज्जय सुधाम्बुधावुज्झति खेदमत्र ॥ ९३ ॥

 स्वेदस्येति ॥ वसुधा छायापदेशात्स्वीयप्रतिबिम्बव्याजेन सुधाम्बुधावत्र चन्द्रे निमज्जयान्तः प्रविश्य खेदं जगद्भारपरिश्रमपीडामुज्झतीव । किंभूता-जगद्भारवहननिमित्तः परिश्रमस्तेनाती नितरां पीडिता। अत एव-स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता समन्तात्पूरिता । अमृतसमुद्रनिमज्जने हि खेदो गच्छत्येव । यस्याश्च तत्तन्नदीरूपः स्वेदः, तस्याः श्रमहरणे सुधासमुद्र एवोचितः । एतेन कलङ्कस्य मृगशशभूच्छायाप्रभृति मतभेदा वणिताः॥

ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशैलः ।
इन्दोर्जगच्छायमये प्रतीके पीतोपि भागः प्रतिविम्बितः स्यात ॥ ९४ ॥

 ममेति ॥ हेमशैलो मेरुः खलु निश्चितं सर्गमारण्याद्ययावदतिक्रान्तेन बहुना कालेन कृत्वा नीलीनिपातः श्यामिकालगनं तेन कृत्वा वा नीलः बहुकालीनत्वान्नीलमलसंबन्धानीलवर्णः संजातास्नीति, एवंप्रकारा ममानुमानुमानम् , एवमहं संभावयामीत्यर्थः । अन्यथा यदि स्वर्णाचलः कालभूयस्त्वेन न नीलीभूतः किंतु हेममयत्वात्पीत पब स्यात्, तर्हि. इन्दोर्जगच्छायमये जगत्प्रतिबिम्बभूते कलङ्करूपे प्रतीकेऽवयवे मेरोः पीतोऽपि भागःप्रतिर्वाम्वितः स्यात्पीतौशोपि दृश्यत, तस्मात्स्वर्णाचलो नील एव जातः। तथाच सकलाया अपि भूमेर्नीलवर्णत्वात्तत्प्रतिबिम्बरूपः कलङ्कोऽपि नील एव युक्त इत्यर्थः । जगच्छाये, विभाषा सेना-' इति पण्डत्वम् ॥

मावापदुन्निद्रसरोजपूजाश्रियं शशी पद्मनिमीलितेजाः ।
अक्षिद्वयेनैव निजाङ्करङ्कोरलंकृतस्तामयमेति मन्ये ॥ ९५ ॥

 मेति ॥ शशी उभिदैर्विकसितैः सरोजैः कृत्वा या पूजा तज्जनितां श्रियं मा अवापत् मास्म लभत । यतःपनिमीलि कमलसंकोचकं तेजो यस्य सः । विकसितानामपि कमलानां पूजार्थं चन्द्रसविधे क्रियमाणानां चन्द्रतेजसां संकोचस्यैव संशवादुन्निद्रसरोजपुजाश्रियं कथं प्राप्नोति । प्रकारान्तरेण प्राप्नोतीत्याह-निजाङ्कभूतस्य रङ्कोर्म्रृगम्याक्षिद्वयेनैवालंकृतोऽयं चन्द्रस्तामुनिद्रसरोजपूजाश्रियमेति प्राप्नोति तन्नयनयोरुनिद्रकमलरूपन्यादित्यर्थ इत्यहं मन्ये । अङ्कमृगनेत्राभ्यां कृत्वायं चन्द्रो विकसितकमलाभ्यां पुजामिय शोभां प्राप्नोतीति भावः । एत्येवेति वा ॥

य एष जागर्ति शशः शशाङ्के बुधो विधत्ते क इवात्र चित्रम् ।
अन्तः किलैतत्पितुरम्बुराशेरासीत्तुरंगोपि मतङ्गजोपि ॥ ९६ ॥

 य इति ॥ य एष प्रत्यक्षादयः शशः शशाङ्के जागर्ति स्फुरति अत्र विपये क इव वुधचित्रमाश्रय विधत्ते, अपितु न कोपि । किल यस्मादेतत्पितुरम्बुराशेरन्तर्मध्ये उच्चैः-