पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
द्वितीयः सर्गः

तव स्तवं स्तुतिं तथातथा तेनतेन प्रकारेण विदधे करिष्यामि तया भैम्या हृदये मनसि निहितोऽवधृतो भवान्यथा येन प्रकारेणेन्द्रेणापि नापनीयते दूरीक्रियते, किंपुनर्मनुष्येण । इन्द्रादेरप्यधिकतया त्वं वर्णनीयः । विदधे, अपनीयते इति च वर्तमानसामीप्ये वर्तमानवत्प्रत्ययः। विदधे आशंसायां भूतवद्वा ॥

अनौचित्यं परिहरति-

तव संमतिमेव केवलामधिगन्तुं धिगिदं निवेदितम् ।
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ४८

 तवेति ॥ इदं दमयन्तीयोजनं तवानुमतं नवेति केवलां संमतिमनुमतिमधिगन्तुमेव ज्ञातुमेव । प्राप्तुमित्यर्थः । इदं निवेदितं विज्ञप्तिं धिक् । हि यतः साधवो महान्तः निजोपयोगितां निजोपकारितां फलेन फलनिष्पत्त्या ब्रुवते, न तु कण्ठेन कण्ठस्थेन वचनेन । तव केवलां संमतिमेवाधिगन्तुं ज्ञातुमेवेदं निवेदितं मम वचनं तथापि निन्द्यम् । ममोपकारो न कर्तव्य इति केनापि नोच्यत इति वा । भवत्संमतिं ज्ञातुमेवेदं वचनं यदि संमतिं भवत्कर्तृकमात्मसंमानं प्राप्तुं चेद्वचनं तर्हि धिक् निन्द्यमेव । यतः-साधवो न ह्येतादृशा भवन्तीति वा॥


तदिदं विशदं वचोमृतं परिपीयाभ्युदितं द्विजाधिपात् ।
अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मितं सितम् ॥ ४९ ॥

 तदिति ॥ स नलः द्विजाधिपात्पक्षिश्रेष्ठात्, चन्द्राच्चाभ्युदितं निर्गतमिदं पूर्वोक्तं विशदं प्रव्यक्तं धवलं च वचोलक्षणममृतं परिपीय सादरमाकर्ण्य पीत्वा चातितृप्ततयातिहृष्टत्वेन सितं श्वेतं स्मितं तस्य पीतस्यामृतस्य चोद्गारमिव विनिर्ममे चकार । श्वेतस्य श्वेत एवोद्गारो भवतीति सितपदम् । अन्योऽप्यतितृप्तोऽजीर्णभयादुद्गारं करोति, सोऽप्यपक्वत्वात्सितो भवति । साधवः स्मितभाषिणः । भैमीप्राप्तिसंभावनाज्जातहर्षाद्वा स्मितम् । उद्गार इति 'उन्न्योर्ग्रः' इति घञ् ॥

परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदेऽकिरद्गिरः प्रियवादामृतकूपकण्ठजाः॥ ५० ॥

 परीति ॥ नैषधो नलः तस्य हंसस्य मुदे हर्षाय गिरो वाचः मृदु कोमलं यथा तथाकिरदुवाच । किं कृत्वा-भुजाग्रे बाहुप्रान्ते जन्मोत्पत्तिर्यस्य तेन कोकनदेन रक्तोत्पलेन । करेणेत्यर्थः । पतगं परिमृज्य संस्पृश्य । किंभूता गिरः-प्रियवादामृतं स्तुतिव-


 १ 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । २ 'अत्रार्थान्तरन्यासोऽलंकारः' इति साहित्यविद्याधरी । ३ 'अत्र रूपकोत्प्रेक्षालंकारः । तत्र वचोमृतमिति रूपकम् । तदुत्प्रेक्षाया निमित्तम् । अत्रार्थान्तरप्रतीतिस्तु रूपकादेव । तेन नात्र समासोक्तिः' इति साहित्यविद्याधरी । ११