पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२१
द्वाविंशः सर्गः।


किं नास्ति, अपित्वस्मदादिनेत्रेऽपीन्दुर्वर्तत एव, परम्-अणुकोऽल्पीयान,तथा क्षणिकः क्षणमात्रावस्थायी । यावच्पिटीकरणमेव दृश्यत इत्यर्थः । तर्ह्यस्माच्चन्द्रात्तस्य वैलक्षण्यं कथमत आह-अत्रेर्मुनेर्नेत्रे तु पुनस्तेजोमयबिन्दुरयमिन्दुमर्हीयानितरापेक्षया नितरां महापरिमाण आसीत् । तथा मासेन कृत्वा नाशी प्राप्तविनाशश्चाभूदिति यत्, तद्धटते । एतधुज्यत इत्यर्थः । यतः-कीदृशस्यात्रेः-महतो महानुभावस्य । 'सर्वं हि महतां महत्' इति न्यायेन महतोऽत्रेस्तेजोमयबिन्दुरप्ययमिन्दुमहापरिमाणश्चिरकालस्थायी चेत्यस्मन्नेत्रवर्तितेजोमयबिन्दोरिन्दोर्वैलक्षण्यं युक्तमेवेति भावः । अणुकः 'अल्पे' इति कन् । नाशीति, अस्त्यर्थे इनिः॥

त्रातुं पतिं नौषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न शेकुः ।
एनं पयोधिर्मणिभिर्न पुत्रं सुधा प्रभावैर्न निजाश्रयं वा ॥१०१॥

 त्रातुमिति ।। मृतसंजीविन्यादय ओषधयः स्वशक्त्या स्वसामर्थ्येन निजरसवीर्यविपाकाभ्यां कृत्वा औषधीशत्वात्पतिमेनं चन्द्रं क्षयिणं प्रतिदिनं कलाक्षयवन्तम् , अथच क्षयरोगिणं सन्तं त्रातुं न शेकुः । तथा-विप्रा द्विजराजत्वान्निजस्वामिनं क्षयिणं मन्त्रेण श्रुतिसामर्थ्येन कृत्वा रक्षितुं न शेकुः । तथा-पयोधिरपि पुत्रं क्षयिणमेनं मणिभिरनेकप्रकारैरन्तःस्थै रत्नैः कृत्वा रक्षितुं न शशाकेति वचनविपरिणामः । तथा--- सुधापि स्वाधारभूतं क्षयिणमेनमजरामरत्वजनकैः प्रभावैः कृत्वा त्रातुं न शशाक । वा समुच्चये। औषध्यादयः स्वशक्त्यादिरक्षणसाधने सत्यपि पतित्वात्पुत्रत्वान्निजाश्रयत्वाच्च क्षयाद्रक्षितुं समर्था न बभूवुरिति विशेषोक्त्या पूर्वकर्मजो रोगो महानुभावैरप्यपनेतुं न शक्यत इति व्यज्यते । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इत्योषध्यादीनां सामर्थ्यं प्रसिद्धम् ॥

मृषा निशानाथमहः सुधा वा हरेदसौ वा न जराविनाशौ।
पीत्वा कथं नापरथा चकोरा विधोर्मरीचीनजरामराः स्युः ॥ १०२ ॥

 मृषेति ॥ निशानाथस्य चन्द्रस्य महस्तेजः सुधा वा पीयूषमेवेति लोकवादो मृषा असत्य एव वाभयेत् । या अथवा । यदि चन्द्रतेजः सुधैवेति लौकिकप्रवादः सत्य एव, तर्हेयसौ चन्द्रतेजारूपा सुधा जराविनाशौ जरामरणे न हरेद्विनाशयेदित्यङ्गीकार्यम् । चन्द्रतेजः सुधा नेति वाङ्गीकार्यम् । अथचैतद्रूपा सुधापि जरामरणे न नाशयतीत्यङ्गीकार्यामत्यर्थः । अपरधान्यथा यदि चन्द्रतेजः सुधेति प्रवादः सत्यः, तद्रूपा सुधा जरामरणे विनाशयेत् , तर्हि चकोराख्याः पक्षिणो विधोर्मरीचीन्पीत्वापि कथं किमिति न अजरामराः स्युर्जरामरणरहिता भवेयुः । चन्द्रतेजसः सुधात्वे, एतस्याश्च सुधाया जरामरणधिनाशे सामर्थ्यसद्भावे, तत्पान चकोरैरप्यजरामरैर्भाव्यम्, नच ते तथा, तस्मात्ततेजसः सुधात्वं वा मृषा भवेत् , सुधाभूतस्यापि वा जरामरणापहारे सामर्थ्यं नास्तीत्यन्यतरदङ्गीकार्यम् । तथा--'सुधाप्रभावैर्न निजाश्रयं वा' इति पूर्वश्लोकांशसमाधानमित्याशयः । अजरामरीस्युः' इति पाठे-च्विः ॥