पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२४
नैषधीयचरिते

भन्त्स्यता आगमिष्यतो मृगस्यात्रैव निवासार्थं बन्धनं करिष्यता श्रवणद्वयेन पाशीयभूवे किम् । तद्रूपया बन्धनरज्ज्वा समाकर्षत्वित्यर्थः । अन्यापि शबरी गीत्या मृगमाकृष्य पाशेन बध्नाति । भवन्मुखं निष्कलङ्कममृताधिकगीतियुक्तं च, चन्द्रस्तु सकलङ्क इति भावः । चन्द्रवर्णनावसरेऽपि मध्ये मध्ये भैमी मुखवर्णनानुरागातिशयसूचनार्थी । अयं श्लोकः क्षेपक इति केचित् ॥

 गगनस्थोपि मृगो भैमीमुखगीतिं कथमश्रृणोदित्याशङ्याह-

आप्यायनाद्वा रुचिभिः सुधांशोः शैत्यात्तमाकाननजन्मनो वा।
यावन्निशायामथ धर्मदुःस्थस्तावद्जत्यहि न शब्दपान्थः ॥ ११० ॥

 आप्यायनादिति ॥ शब्दरूपः पान्थो नित्यपथिको निशायां यावद्व्रजति तावदथ पश्चात्साकल्येन वा अह्नि न गच्छति, यस्माद्दिने घर्मेणातपेन दुःस्थः संतप्तः, तस्माद्दिनेऽल्पमेव गच्छतीत्यर्थः । रात्रौ दूरागमने हेतुमाह---सुधांधोरमृतरूपाभी रुचिभिराप्यायनादुज्जीवितवलत्वाद्वा तम एव काननं वनं तस्माज्जन्म यस्य गाढान्धकारजाताच्छैत्याद्वा तेजसोऽभावे तमसःसंभवादौष्ण्याभावाच्छैत्यम् । अतएव रात्रौ बहु गच्छति, दिने चोष्णेन श्रान्त इव बहु न गच्छति । शब्दो हि रात्री स्वभावादतिदुरेपि श्रूयते । दिवा तु न तथा । पथिकोपि रात्रौ शैत्याद्दूरं गच्छति, दिने चाल्पम् । दृग्श्रवणप्रतिपादकोयं श्लोकः॥

दूरेपि तत्तावकगानपानालब्धावधिः स्वादुरसोपभोगे ।
अवज्ञयैव क्षिपति क्षपायाः पतिः खलु स्वान्यमृतानि भासः॥१११॥

 दूरेपीति ॥ हे प्रिये, खलु निश्चितं क्षपायाः पतिश्चन्द्रोभासश्चन्द्रिका एव स्वान्यमृतानि क्षिपति अधो मुञ्चति । किंभूतः-दुरेप्यतितरां देशव्यवधानेपि तत्प्रसिद्धं मधुरतरं तावकं गानं तस्य पानात्सादश्रवणाद्धेतोः स्वादुरसोपभोगे माधुर्यातिशयानुभवे विषये लब्धावधिः प्राप्तमर्यादः । उत्प्रेक्षते ---- अवज्ञयेव अनुभूतभवद्गीतमाधुर्यापेक्षयाल्पमाधुर्यतयावमाननयेवेत्यर्थः । अयं श्लोको भिन्न एव, नतु युग्मम् ॥

अस्मिन्न विस्मापयतेऽयमस्मांश्चक्षुर्बभूवैष यदादिपुंसः ।
तदत्रिनेत्रादुदितस्य तन्वि कुलानुरूपं किल रूपमस्य ॥ ११२ ॥

 अस्मिन्निति ॥ हे तन्वि, एष चन्द्रः आदिपुंसः श्रीविष्णोर्वामं चक्षुर्बभूवेति यत् । अस्मिन्नेत्रभवनविषयेऽयं नेत्रभूतश्चन्द्रोऽस्मान्न विस्मापयते आश्चर्यं न प्रापयति । अत्रार्थेऽस्माकमाश्चर्यं न भवतीत्यर्थः । किल यस्माद्धेतोरत्रिनेत्रादुदितस्योत्पन्नस्यास्य तच्चक्षुर्भवनं कुलानुरूपं कुलोचितं स्वरूपम् । नेत्ररूपात्कारणाजातस्य नेत्रीभवनमुचितमेव । तस्मादस्य पुराणपुरुषनेत्रभवने न किंचिदस्माकं चित्रमित्यर्थः । विस्मापयते, 'नित्यं स्मयते' इत्यात्त्वम्, 'भीस्म्योहेतुभये' इति तङ् । अस्मान् ,जनान्तरापेक्षया बहुत्वम् ॥