पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२५
द्वाविंशः सर्गः।

आभिर्मृगेन्द्रोदरि कौमुदीभिः क्षीरस्य धाराभिरिव क्षणेन ।
अक्षालि नीली रुचिरम्बरस्था तमोमयीयं रजनीरजक्या ॥११३॥

 आभिरिति ॥ हे मृगेन्द्रोदरवत्कृशमुदरं यस्यास्तादृशि, रजन्येव रजकी तया क्षीरस्य दुग्धस्य धाराभिरिव दृश्यमानाभिर्धवलतराभिराभिः कौमुदीभिः कृत्वाऽम्बरस्था गगनथा तमोमयीयं नीली कज्जलवत्काली रुचिः क्षणमात्रेणाक्षालि निरस्ता । यथा रजक्या वसनस्था काली कान्तिर्दुग्धधाराभिः क्षणेन क्षाल्यते । तदुक्तं कलाकोषे–'तैलं घृतेन, तच्चोष्ण जलैर्दुग्धेन कज्जलम् । नाशयेदम्बरस्थं तु मलं क्षारेण सोष्मणा ॥' इति । चन्द्रिकाभिर्गगनं निर्मलीकृतमिति भावः । मृगेन्द्रोदरि, 'नासिकोदर-' इति ङीष् । ओषधिप्राणिवाचित्वाभावान्नीलीव नीलीति ङीप् समर्थनीयः । रजकी, ष्वुनः पित्वान्ङीष् ॥

पयोमुचां मेचकिमानमुच्चैरुच्चाटयामास ऋतुः शरद्या।
अपारि वामोरु तयापि किंचिन्न प्रोच्छितुं लाञ्छनकालिमास्य ॥

 पय इति ॥ हे वामोरू, शरद्दतुः पयोमुचां मेघानां वर्षाकालीनमुच्चकैरतिशयितमपि मेचकिमानं कालिमानमुच्चाटयामास । तया कालिमापनयने दृष्टसामर्थ्यया शरदाप्यस्य चन्द्रभ्य लाञ्छनरूपः कालिमा किंचिदल्पमपि प्रोच्छितुं स्फोटयितुं नापारि । शरदच्छे चन्द्रे मलिनः कलङ्कोऽतितरां शोभत इति भावः । मेचकिमानं वर्णयाचित्यादिमनिच् ॥

एकादशैकादशरुद्रमौलीनस्तं यतो यान्ति कलाः किमस्य ।
प्रविश्य शेषास्तु भवन्ति पञ्चपञ्चेषुतूणीमिषवोऽर्धचन्द्राः ॥११५॥

 एकेति ।। अस्तं यतो गच्छतोऽस्य चन्द्रस्यैकादश कला एकादशानां रुद्राणां मौलीन् प्रति यान्ति किल गच्छन्तीव । शेषाः पञ्च कलास्तु पुनः पञ्चेषोः कामस्य तूणीमल्पमिषुधि प्रविश्यार्धचन्द्राकारत्वादर्धचन्द्राख्या इषवो भवन्ति । विनाशसमयेऽप्ययं परोपकानिरत इति ध्वन्यते । तूणीम् , अल्पत्वविवक्षया स्त्रीत्वे गौरादित्वान्ङीप् । अर्धचन्द्रशब्दो रूढः ॥

निरन्तरत्वेन निधाय तन्वि तारासहस्राणि यदि क्रियेत ।
सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत ॥११६॥

 निरन्तरेति ॥ हे तन्वि, ताराणां नक्षत्राणां सहस्राणि निरन्तरत्वेनान्योन्यसंबन्धितया विधायकीकृत्य यदि अन्यः सुधांशुः क्रियेत निर्मीयेत तदा तर्हि स चन्द्रस्ताराणामकलङ्कत्यात्तन्मयन्वात्कलङ्केन मुक्तः संस्त्वदास्यस्य श्रियं शोभामाश्रयेत । क्रियातिपत्तेरविवक्षतत्वाल्लङ्कृभावः ॥