पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२६
नैषधीयचरिते

यत्पद्ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् ।
एकार्थलिप्साकृत एष शङ्के शशाङ्कपङ्केरुहयोर्विरोधः ॥ ११७ ॥

 यदिति ॥ हे मृगाक्षि, यत्पद्मं तवाननीयां मुखसंवन्धिनीं लक्ष्मीमादित्सु ग्रहीतुकामम्, कुरङ्गलक्ष्मा चन्द्रश्च तव मुखशोभा ग्रहीतुकामः, तयोः शशाङ्कपह्करुहयोरेष विरोधस्त्वन्मुखशोभालक्षण एकोऽर्थस्तस्य लिप्साकृतः प्राप्तिवाञ्छानिमित्त एवेत्यहं शङ्के । एकद्रव्याभिलाषित्वेन विरोधः सुप्रसिद्धः । चन्द्रपद्मयोरपि विरोधः प्रसिद्ध एव । चन्द्रपद्माभ्यां सकाशात्ते मुखमधिकमिति भावः। आदित्सु, चन्द्रपक्षे लिङ्गविपरिणामः । लक्ष्मी, 'न लोका-' इति षष्ठीनिषेधः ॥

लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते ।
निपीय दैवैर्विघसीकृतायां घृणां विधोरस्य दधे सुधायाम् ॥११८॥

 लब्धमिति ॥ हे प्रिये, अहं सर्वैरपि देवैर्विघसीकृतायां निःशेषं पीत्वा भुक्तशेषीकतायाम् अस्य विधोः सुधायां घृणां जुगुप्सां दधे धारयामि । किं कृत्वा-लेखानां देवानां प्रभुणेन्द्रेणापि पातुं न लब्धं कृतप्रयत्नस्यापि तस्यावरणात्तेन दुष्प्रापं केनाप्य नुच्छिष्टं ते मुखेन्दोरधररूपममृतं निपीय पीत्वा । चन्द्र सुधायाः सकाशात्वदधरामृतं स्वादुतरमिति भावः । अन्योप्युच्छिष्टभोजने जुगुप्सां धारयति ॥

एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम्।
अश्नाति घोरं विषमब्धिजन्म धत्ते भुजङ्गं च विमुक्तशङ्कः ॥११९॥

 एनमिति ॥ स गिरीन्द्रपुत्रीपतिः शंभुरेनमोपधीशं विधुमुत्तमाङ्गे शिरसि बिभ्रद्धारयन् सन्नब्धिजन्म समुद्रोत्पन्नं घोरं दारुणमपि विषमश्राति, विमुक्तशङ्को भुजङ्गं सर्पराजं वासुकिं च धत्ते । शंभोरप्युपकारकत्वेन पूज्यः श्रेष्ठोयमिति भावः । औषधिस्वामिनोस्य शिरसि धारणादिव निःशङ्कं विषं भक्षयति सर्पांश्च धारयतीत्युत्प्रेक्षा । भुजङ्गम्, जात्यभिप्रायेणैकवचनं वा ॥

नास्य द्विजेन्द्रस्य बभूव पश्य दारान्गुरोर्यातवतोपि पातः ।
प्रवृतयोऽप्यात्ममयप्रकाशानह्यन्ति न ह्यन्तिमदेहमाप्तान् ॥१२०॥

 नेति ॥ हे प्रिये, द्विजेन्द्रस्य अस्य चन्द्रस्यास्य गुरोर्बृहस्पतेर्दारान् भार्यां यातयतों गच्छतोपि गुरुतल्पगामिनोपि पातः स्वर्गाद्भ्रंशः, अथच .. पातित्यम्, न बभूव पश्य । चित्रमेतद्विलोकयेत्यर्थः । अथवा युक्तमेतत् । प्रवृत्तयो धर्माधर्महेतुकर्मारम्भा अपि आत्ममय आत्मस्वरूपमेव प्रकाशो येषां तान्प्रकाशान्तरनिरपेक्षान्प्रकाशरूपान्, अथच-परमात्मैव प्रकाशो येषां तान् परमात्मस्वरूपातिरिक्तप्रकाशानभिज्ञान्स्वप्रकाशात्मवादिनो ब्रह्मज्ञानिनोऽन्तिमदेहं तेजोरूपशरीरं पूर्णतां वा प्राप्तान, अथच-अनन्तरभाविमोक्षत्वात्प्राचीनशरीरप्रवाहापेक्षया शेषं शरीरं प्राप्तान् जीवन्मुक्तान्पुरु षान्हि यस्मान् नह्यन्ति शुभाशुभफलबन्धेन न संबध्नन्तीत्यर्थः । तेषां तेजोविशेषण